________________
रघुवंशमहाकाव्ये तच्छिष्या,तच्छिष्याणाम्,अध्ययनम् = पठनम्, वेदपाठ इत्यर्थः, तच्छिष्याध्ययनम्, तच्छिष्याध्ययनेन, निवेदितम् = सूचितम्, अवसानम् = समाप्तिा यस्याः सा तच्छिष्याध्ययननिवेदितावसाना, तां तथोक्ताम्, निशाम् = रात्रिम् निनाय = अनैषीत् ।
समा०--प्रयतः परिग्रहः यस्य सः प्रयतपरिग्रहः । कुलस्य पतिः कुलपतिः तेन कुलपतिना। पर्णानाम् शाला पर्णशाला, ताम् पर्णशालाम् । कुशानाम् शयनम् कुशशयनम् तस्मिन् कुशशयने। तस्य शिष्याः तच्छिष्याः, तच्छिष्याणाम् अध्ययनम् तच्छिष्याध्ययनम्, तच्छिष्याध्ययनेन निवेदितम् अवसानम् यस्याः सा तच्छिष्याध्ययननिवेदितावसाना, ताम् तच्छिष्याध्ययननिवेदितावसानाम् ।
अभि०--राजा दिलीप: सुदक्षिणया सह कुलपतिना वसिष्ठेन सूचितां पर्णकुटीं प्रविश्य कुशास्तरणे सुप्तवान् । तच्छिष्यः कृतेन वेदघोषेण च रात्रिगतेति विज्ञाय प्रबुद्धः । . हिन्दी-राजा दिलीप सुदक्षिणा के साथ कुलपति वसिष्ठ जी से बताई हुई पर्णकुटी में कुशासन पर सोये तथा उनके शिष्यों द्वारा किये गये वेदघोष से यह जान कर कि रात बीत गई है, जाग गये ॥ ९५ ॥ इति श्रीशांकरिधारादत्तशास्त्रिमिश्रविरचितायां 'छात्रोपयोगिनी' व्याख्यायां
रघुवंशे महाकाव्ये वसिष्ठाश्रमाभिगमनोनाम प्रथमः सर्गः ।