________________
सप्तदशः सर्गः
४१३
· समासः-रक्षायाः सदृशमिति रक्षासदृशं तत् रक्षासदृशम् ।।
हिन्दी-खानों से हीरे माणिक्यादि और खेतों से अन्नादि, तथा वनों से हाथी पैदा 'खूब करके' पृथिवी ने भी राजा को जैसी उसने रक्षा की वैसा वेतन दिया अर्थात् अतिथि का राज्य सर्वसुख सम्पन्न, धनधान्य सम्पन्न था ॥ ६६ ॥
स गुणानां बलानां च षण्णां षण्मुखविक्रमः।
बभूव विनियोगज्ञः साधनीयेषु वस्तुषु ॥ ६७ ॥ षण्मुखविक्रमः स राजा षण्णां गुणानां संधिविग्रहादीनां बलानां मूलभृत्यादीनां च साधनीयेषु वस्तुपु साध्येष्वर्थेषु विनियोगं जानातीति । विनियोगस्य ज्ञ इति वा विनियोगशः। कर्मविवक्षायामुपपदसमासः। 'आतोऽनुपसर्गे कः' इति कप्रत्ययः। शेषविवक्षायां षष्ठीसमासः । 'इगुपध-' इत्यादिना कप्रत्ययः । बभूव । 'इदमत्र प्रयोक्तव्यम्' इत्याद्यज्ञासीदित्यर्थः ।
अन्वयः षण्मुखविक्रमः सः षण्णां गुणानां षण्णां बलानां च साधनीयेषु वस्तुषु विनियोगशः बभूव ।
व्याख्या--षट् = घटसंख्यकानि मुखानि = आननानि यस्य स षण्मुखः षण्मुखस्य = कार्तिकेयस्य इव विक्रमः= पराक्रमो यस्य स षण्मुखविक्रमः सः राजा अतिथिः षण्णां = षटसंख्यकानां गुण्यन्ते इति गुणाः तेषां गुणानां = सन्धिविग्रहयानादीनां,षण्णां बलानां = मूलभृत्यसुहृद्वर्गशवादीनां च साधयितुं योग्यानि साधनीयानि तेषु साधनीयेषु = साध्येषु वस्तुषु = प्रयोजनेषु विनियुज्यते इति विनियोगस्तं जानानीति विनियोगशः= कर्तव्यविधिज्ञः बभूव =जातः। अस्मिन् कायें समये वा इदं कर्तव्यं प्रयोक्तव्यमित्यादिशानवान् आसोदित्यर्थः ।
समासः-षट् मुखानि यस्य स षण्मुखः, तस्य विक्रम इव विक्रमो यस्य स षण्मुखविक्रमः । विनियोगस्य ज्ञः विनियोगशः।
हिन्दी-कार्तिकेय के समान पराक्रम ( बल ) वाले राजा अतिथि, छः प्रकार के ( सन्धि, विघह, यान, आसन, संश्रय, द्वैधीभाव, ) गुणों के, और मूल, भृत्य, सुहृद्वर्ग, शत्रु, आटविक, बल, इन छ: प्रकार की सेनाओं के प्रयोग उपयोग, किस समय कहाँ किस प्रयोजन में करना है-यह सब जानते थे ॥ ६७ ॥
इति क्रमात्प्रयुञ्जानो राजनीतिं चतुर्विधाम् ।
आतीर्थादप्रतीघातं स तस्याः फलमानशे ॥ ६८ ॥ इति चतुर्विधाम् । सामायुपायैरिति शेषः । राजनीतिं दण्डनीति क्रमात्सामादिक्रमादेव प्रयुजानः स राजा आतीर्थान्मन्त्र्याद्यष्टादशात्मकतीर्थपर्यन्तम् । 'योनौ जलावतारे च मन्त्र्याधष्टादशस्वपि । पुण्यक्षेत्र तथा पात्रे तीर्थं स्यात्' इति हलायुधः। तस्या नीतेः फलमप्रतीवातमप्रतिबन्धं यथा तथा आनशे प्राप्तवान् । मन्त्र्यादिषु यमुद्दिश्य य उपायः प्रयुज्यते स तस्य फलतीत्यर्थः ॥