________________
४१४
रघुवंशे
अन्वयः-इति चतुर्विधां राजनीति क्रमात् प्रयुञ्जानः सः आतीर्थात् तस्याः फलम् अप्रतिघातं यथा स्यात्तथा आनशे।
व्याख्या-इति = इत्थम् चतस्रः विधाः= प्रकारा यस्याः सा तां चतुर्विधां = सामदानाद्युपायरूपां राज्ञां=भूपालानां नीतिः= नयस्ता राजनीति दण्डनीति क्रमात् = क्रमशः प्रयुञ्जानः= प्रयोगं कुर्वन् सः= अतिथिः आ तीर्थात् = मंत्रिपुरोहिताद्यष्टादशमहाभारतोक्ततीर्थपर्यन्तम् तस्याः = नीतेः फलं = परिणामम् नास्ति प्रतीघातः प्रतिबन्धः यस्मिन् कर्मणि तत् अप्रतीपातं यथा स्यात्तथा आनशे =प्रापत् प्राप्तवानित्यर्थः । मंत्रिपुरोहितादिषु यदुद्देशेन यः उपायः प्रयुज्यते स उपायस्तस्य फलतीत्यर्थः।
समासः-राज्ञां नीतिरिति राजनीतिस्तां राजनीतिम् । चतस्रः विधाः यस्याः सा तां चतुविधाम् । नास्ति प्रतीघातो यस्मिन् कर्मणि अप्रतीघातम् ।
हिन्दी—इस प्रकार साम दान दण्ड भेद इन उपायों से राजनीति को प्रयोग में लेते हुए ( चारों प्रकार की नीति को चलाते हुए ), राजा अतिथि ने उस राजनीति के फल को महाभारत में वर्णित मंत्रिपुरोहितादि अट्ठारहों तक निर्विघ्न प्राप्त कर लिया। अर्थात् मंत्री आदि में जिस फल का उद्देश्य कर के जिस उपाय का भी प्रयोग किया वह सफल ही रहा ॥ ६८॥
कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि ।
भेजेऽभिसारिकावृत्तिं जयश्रीीरगामिनी ॥ ६९ ॥ कूटयुद्धविधिशेऽपि कपटयुद्धप्रकाराभिशेऽपि सन्मार्गेण योधिनि धर्मयोद्धरि तस्मिन्नतिथौ वीरगामिनी जयश्रीरभिसारिकावृत्तिं भेजे । 'कान्तार्थिनी तु या याति संकेतं साभिसारिका' इत्यमरः। जयश्रीस्तमन्विष्यागच्छदित्यर्थः ॥
अन्वयः-कूटयुद्धविधिशे अपि सन्मार्गयोधिनि तस्मिन् वीरगामिनी जयश्रीः अभिसारिकावृत्तिं भेजे।
व्याख्या-कूटं = मायिक = कपटपूर्णमित्यर्थः, च तत् युद्धं = संग्रामः तस्य विधिः= प्रकारस्तं जानाति =वेत्तीति कूटयुद्धविधिज्ञस्तस्मिन् कूटयुद्धविधिज्ञ अपि सन्मार्गेण = धर्मेण योधी = योद्धा तस्मिन् सन्मार्गयोधिनि तस्मिन् = अतिथौ वीरं = योद्धारं-भटं गच्छति =यातीति वीरगामिनी जयस्य श्रीः= लक्ष्मीरिति जयश्रीः अभिसरति = संकेतस्थानं, ( सुरतार्थ ) यातीति अभिचारिका = अभिसारिणी तस्याः वृत्तिः=व्यवहारस्ताम् अभिसारिकावृत्तिं भेजे = सिषेवे। जयश्रीः धर्मयोधिनं वीरं स्वयमन्विष्य तत्पावें स्वयमागच्छतीत्यर्थः ।।
समासः-कूटं च तत् युद्धं कूटयुद्धं, कूटयुद्धस्य विधिः कूटयुद्धविधिः, तस्य शः इति कूटयुद्धविधिज्ञः, तस्मिन् तथोक्ते । सन्मार्गेण योधी तस्मिन् सन्मार्गयोधिनि । जयस्य श्रीरिति जयश्रीः। अभिसारिकाणां वृत्तिस्ताम् अभिसारिकावृत्तिम् । वीरं गामिनीति वीरगामिनी। ___ हिन्दी-छल कपट युद्ध के प्रकार को जानते हुए भी धर्मपूर्वक युद्ध करने वाले राजा