________________
४१२
रघुवंशे
होकर, नदियों में घर की बावलियों के समान तथा वनों में अपने बगीचों के समान और पर्वतों · में अपने घरों के समान व्यापार करते घूमते थे। अर्थात् इन सब दुर्गम स्थानों में भी सुखपूर्वक घूमते थे ॥ ६४॥
तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च संपदः ।
यथास्वमाश्रमैश्चक्रे वर्णैरपि षडंशभाक् ॥ ६५ ॥ विघ्नभ्यस्तपो रक्षन् । तस्करेभ्यः संपदश्च रक्षन्। स राजाश्रमैर्ब्रह्मचर्यादिभिर्वणैरपि ब्राह्मणादिभिश्च यथास्वं स्वमनतिक्रम्य षडंशभाक्चक्रे । यथाक्रममाश्रमैस्तपसो वर्णैः संपदां च षष्ठांशभाक्कृत इत्यर्थः । षष्ठोऽशः षडंशः। संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमुक्तं प्राक् ॥
अन्वयः-विघ्नेभ्यः तपः रक्षन् , तस्करेभ्यः सम्पदः च रक्षन् , सः आश्रमैः वर्णैः च यथास्वं षडंशभाक् चक्रे। ___ व्याख्या-विघ्नेभ्यः = अन्तरायेभ्यः “विनोऽन्तरायः प्रत्यूहः” इत्यमरः। तपः तपस्यां रक्षन् =गोपयन् , तत् कुर्वन्ति इति तस्करास्तेभ्यः, तस्करेभ्यः=चौरेभ्यः सम्पदः= धनानि च रक्षन् सः =राजा अतिथिः आश्राम्यन्ति यत्र अनेनेति आ = समन्तात् श्रमः स्वधर्मसाधनक्लेशा यत्र वासःआश्रमः । आश्रमैः=ब्रह्मचर्यादिभिः वर्णैः ब्राह्मणादिभिः च स्वमनतिक्रम्य यथास्वं षष्ठोऽशः षडंशस्तं भजतीति षडंशभाक् = षडंशसेवी चक्रे = कृतः, आश्रमैः तपसः षडंशभाक् ब्राह्मणादिवर्णैश्च सम्पदां षष्ठांशभाक् कृतः स राजेत्यर्थः ।
हिन्दी-विघ्नों से तपस्वियों के तप की रक्षा करने वाले, एवं चोरों से जनता की सम्पदा की रक्षा करने वाले उस राजा अतिथि को क्रमशः आश्रमवासियों ने अपने तप का, और ब्राह्मणादि चारों वर्ण के लोगों ने अपनी सम्पत्ति का, छठा भाग दिया ॥ ६५ ॥
खनिभिः सुपुवे रत्नं क्षेत्रः सस्यं वनैर्गजान् ।
दिदेश वेतनं तस्मै रक्षासदृशमेव भूः ॥ ६६ ॥ भूर्भूमिस्तस्मै राशे रक्षासदृशं रक्षणानुरूपमेव वेतनं भृति दिदेश ददौ । कथम् । खनिभिराकरैः । 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः । रत्नं माणिक्यादिकं सुपुवेऽजीजनत् । क्षेत्रैः सस्यम् । वनैगेजान्हस्तिनः सुपुवे ॥
अन्वयः-खनिभिः रत्नं सुषवे, क्षेत्रैः सस्यं सुषुवे, वनैः गजान् सुषुवे, 'इति' भूः तस्मै रक्षासदृशम् एव वेतनं दिदेश । ___ व्याख्या-खन्यन्ते इति खनयस्ताभिः खनिभिः =आकरैः “खनिः स्त्रियामाकरः" इत्यमरः । रत्नाद्युत्पत्तिस्थानैरित्यर्थः । रत्नं = हीरकादिकं सुषुवे = उत्पादयामास, क्षेत्र:=केदारैः “वप्रः केदारः क्षेत्रं" इत्यमरः। सस्यं = धान्यं सुषुवे, वनैः = विपिनैः गजान् = नागान्, अजीजनत् इति-एवं प्रकारेण भू:=पृथिवी तस्मै = राज्ञेऽतिथये रक्षायाः = पालनस्य सदृशम् = अनुरूपमेव वेतनं = भृति दिदेश = दत्तवती।