________________
सप्तदशः सर्गः सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः ।
स चकर्ष परस्मात्तदयस्कान्त इवायसम् ॥ ६३ ॥ सर्पस्य शिरोरत्नमिव अस्य राज्ञः शक्तित्रयं परः शत्रुर्न चकर्ष । स तु परस्माच्छवोस्तच्छक्तित्रयम् । अयस्कान्तो मणिविशेष आयसं लोहविकारमिव चकर्ष ।
अन्वयः-सर्पस्य शिरोरत्नम् इव अस्य शक्तित्रयं परः न चकर्ष, सः तु परस्मात् तत् अयस्कान्तः आयसम् इव चकर्ष ।
व्याख्या-सर्परय = भुजंगमस्य शिरसि धार्य रत्नं शिरोरत्नं = मस्तकमणिः, तत् शिरोरत्नम् इव = यथा अस्य = राज्ञः अतिथेः शक्तीनां त्रयमिति शक्तित्रयं = प्रभुशक्तिमन्त्रोत्साहशक्तिरूपं परः = शत्रःन चकर्ष = नाकृष्टवान् । सः= अतिथिस्तु परस्मात् = शत्रोः सकाशात् तत् = शक्तित्रयम् अयस्सु अयसां मध्ये कान्तः = रमणीयः, अयस्कान्तः = सन्निधिमात्रेण लोहापकर्षकः चुम्बकलोहः इत्यर्थः । आयसं = लोहविकारम् इव चकर्ष ।
समासः-शिरसि धार्य रत्नं शिरोरत्नम् तत् । शक्तीनां त्रयमिति शक्तित्रयम् तत् । अयस्सुअयसां वा मध्ये कान्तः अयस्कान्तः ।
हिन्दी-जिस प्रकार सर्प के मस्तक की मणि को कोई नहीं ले सकता, उसी प्रकार कोई शत्रु राजा अतिथि की प्रभावशक्ति, मन्त्रशक्ति, उत्साहशक्ति इन तीनों शक्तियों को न खींच सका। ( न ले सका ) किन्तु लोहे को चुम्बक के समान, अतिथि ने अपने शत्रुओं की उन तीनों शक्तियों को अपने पास खींच लिया ॥ ६३ ॥
वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव ।
सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु ।। ६४ ॥ स्रवन्तीषु नदीषु । वापी दीविकास्विव । 'वापी तु दीपिका' इत्यमरः । वनेष्वरण्येषूपवनेवारामेष्विव । 'आरामः स्यादुपवनम्' इत्यमरः। अद्रिषु स्वकीयेषु वेश्मस्त्रिव सार्था वणिकप्रभृतयः स्वैरं स्वेच्छया चेरुश्चरन्ति स्म ।
अन्वयः-स्रवन्तीपु वापीपु इव, वनेषु उपवनेषु इव, अद्रिषु स्वकीयेषु वेश्मसु इव सार्थाः स्वैरं चेरुः। __व्याख्या-स्रवन्तीति स्रवन्त्यस्तासु स्रवन्तीषु = स्रोतस्वतीषु नदीपु उप्यन्ते पद्माद्यानि यासु ताः वाप्यस्तासु वापीषु = दीर्घिकासु इव = यथा “वापी तु दीर्घिका" इत्यमरः। वनेषु = अरण्येषु उपगतानि वनानीति उपवनानि तेपु उपवनेषु = आरामेषु इव = यथा “आरामः स्यादुपवनं कृत्रिमं वनमेव यत्" इत्यमरः। अद्रिषु पर्वतेपु स्वकोयेषु = आत्मनीनेषु वेश्मसु = भवनेषु इव सार्थाः = संघाताः, वणिक्समूहादयो वा, "सार्थो वणिक्समूहे स्यादपि संघातमात्रके” इति मेदिनी । स्वेन = स्वातंत्र्येण ईतें, ईरति वा स्वैरं = स्वच्छन्दं चेरुः=चरन्ति, भ्रमन्ति स्म ।
हिन्दी-"राजा अतिथि के राज्य में" व्यापारी एवं घुमक्कड़ों की टोलियाँ निर्भय स्वच्छन्द