________________
सप्तदशः सर्गः
३९३
उत्तष्ठन्त इति शेषः । सोऽतिथिस्तेजसामग्मयादीनां वृत्ति स्वभात्रमतीत्य गुणैः समं सहैवोत्थित उदितः । अपूर्वमिदमित्यर्थः ॥
अन्वयः - अग्नेः धूमात् पश्चात् शिखा, रवेः उदयात् पश्चात् अंशवः “उत्तिष्ठन्ते" सः तेजसां वृत्तिम् अतीत्य गुणैः समम् एव उत्थितः ।
:
व्याख्या -- अग्नेः वह्न ेः धूनोति, धूयते वा धूमः = आर्द्रेन्धनप्रभवः भम्मः तस्मात् धूमात् पश्चात् = अनन्तरम् शिखा = ज्वाला, उत्तिष्ठन्ते, रवेः = सूर्यस्य उदयात् = प्राकट्यात् पश्चात् = अनन्तरम् अंशवः = किरणाः उत्तिष्ठन्ते इति शेषः । “किन्तु " सः = राजा अतिथि: तेजसां = अग्न्यादीनां वृत्तिं = वर्त्तनं स्वभावमित्यर्थः । अतीत्य = अतिक्रम्य गुणैः = शौर्य्यादभिः, दयादाक्षिण्यादिभिश्च समं = साकम् एव उत्थितः = उदतिष्ठत् । इदं खलु अभूतपूर्वं जातमित्यर्थः ।
हिन्दी - अग्नि से धूआँ निकलने बाद लपट निकलती है । और सूर्य से उदय होने के पश्चात् उसकी किरणे निकलती हैं, परन्तु महाराज अतिथि इन तेजस्वियों के स्वभाव-नियम को उलटकर अपने गुणों के साथ ही उठ गये । अर्थात् राजा बनने के साथ ही साथ उनके गुण भी प्रकट हो गये । यह विचित्रता थी राजा में ।। ३४ ।।
तं प्रीतिविशदेनेंनैरन्वयुः परयोषितः ॥ शरत्प्रसन्नैज्र्ज्योतिर्भिर्विभावर्य इव ध्रुवम् ॥ ३५ ॥
पौरयोषितः प्रीत्या विशदैः प्रसन्नैनेत्रः करणैस्तमतिथिमन्वयुरनुजग्मुः सदृष्टिप्रसारमद्राक्षुरित्यर्थः । कथमिव । शरदि प्रसन्नैज्योंतिर्भिर्नक्षत्रैर्विभावय रात्रयो ध्रुवमिव । ध्रुवपाशबद्धत्वात्ताराचक्रस्येत्यर्थः ॥
अन्वयः—पौरयोषितः प्रीतिविशदेः नेत्रैः तं शरत्प्रसन्नैः ज्योतिभिः विभावर्यः ध्रुवम् इव
,
अन्वयुः ।
व्याख्या - पुरे भत्राः पौराः, पौराश्च ताः योषितः पौरयोषितः = नागरिकसुन्दर्यः प्रीत्या = स्नेहेन विशदानि = निर्मलानि तैः प्रीतिविशदैः = प्रसन्नैरित्यर्थः नेत्रैः = लोचनैः तम् =अतिथिम् शरदि = शरदृतौ प्रसन्नानि = विशदानि तैः शरत्प्रसन्नैः ज्योतिभिः नक्षत्रैः विभान्ति नक्षत्रादिभिः याः ताः विभावर्यः= रात्रयः ध्रुवं = ध्रुवनामानं नक्षत्रविशेषम् इव = यथा अन्वयुः : अनुजग्मुः । यथा सर्वाणि नक्षत्राणि श्रुतस्य सर्वतः परिभ्रमन्ति एवम् अयोध्यारमण्यः राजानमतिथिं सदृष्टिप्रसारमद्राक्षुरित्यर्थः ।
=
समासः—प्रीत्या विशदानि तैः प्रीतिविशदैः । पोराश्च ताः योषितः, पौराणां वा योषितः पौरयोषितः । शरदि प्रसन्नानि तैः शरत्प्रसन्नैः ।
हिन्दी - जिस प्रकार शरदृतु के निर्मल स्वच्छ तारों से रात्रियां ध्रुव नक्षत्र के चारों ओर