________________
३९२
रघुवशे
समास:--पुरुहूतस्य श्रीरिव श्रीः यस्य स पुरुहूतश्रीः । कल्पस्य द्रुमः कल्पद्रुमस्तस्य निभाः ध्वजाः यस्यां सा तां कल्पद्रमनिभध्वजाम् । ऐरावतस्य इव ओजो यस्य स तेन ऐरावतौजसा।
हिन्दी--इन्द्र के समान सम्पत्तिशाली, राजा अतिथि, ऐरावत ( इन्द्र के हाथो ) के समान बलवान् अपने हाथी पर बैठकर जब कल्पवृक्ष के समान ध्वजा ( झण्डों ) वाली अयोध्या में घूमने निकलते थे, तो वह नगरी अमरावती जैसी लगती थी। अर्थात् स्वर्गपुरी में मानो इन्द्र ऐरावत पर चढ़कर घूम रहा हो ऐसा जान पड़ता था ॥ ३२ ॥
तम्यकस्योच्छ्रितं छत्र मूर्ध्नि तेनामलत्विषा ।
पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतम् ॥ ३३ ॥ तस्यैकरय मूनि छत्रमुच्छ्रितमुन्नमितम् । अमलत्विषा तेन छत्रेण कृत्स्नस्य जगतः पूर्वराजस्य कुशरय वियोगेन यदौम्यं संतापरतडतं नाशितम् । अत्र छत्रोन्नमनसंतापहरणलक्षणयोः कारणकार्ययोभिन्नदेशत्वादसंगतिरलंकारः । तदुक्तम्-'कार्यकारणयोभिन्नदेशत्वे सत्यसंगतिः' इति ॥
अन्वयः-तरय एकस्य मूर्ध्नि छत्रम् उच्छ्रितम् , अमलत्विषा तेन कृत्स्नस्य जगतः पूर्वराजवियोगौष्म्यं हृतम् ।
व्याख्या-तस्य = राज्ञोऽतिथेः एकस्य = केवलस्य मूनि = मस्तके छादयत्यनेनेति छत्रम् = आतपत्रम् "छत्रं त्वातपत्रम्" इत्यमरः । उच्छ्रितम् = उन्नमितम् । अमलाः शुभ्रा त्विट् = कान्तिः यस्य तत् तेन अमलत्विषा तेन = छत्रेण कृत्स्नस्य = अख्लिस्य जगतः = संसारस्य पूर्वश्चासौ राजा पूर्वराजस्तस्य पूर्वराजस्य = स्वपूर्ववर्तिराजस्येस्यर्थः कुशस्य वियोगः = अभावस्तेन यत्औष्म्यं = सन्तापः तत् पूर्वराजवियोगौष्म्यं हृतम् = निवारितम् दूरीकृतमित्यर्थः।
समासः-अमला त्विट् यस्य तत्तेन अमलत्विषा। पूर्वश्चासौ राजा पूर्वराजः पूर्वराजस्य वियोगः पूर्वराजवियोगस्तेन यत् औष्म्यं तत् पूर्वराजवियोगौष्म्यम् ।
हिन्दी-यद्यपि केवल राजा अतिथि के ही शिरपर छत्र ( राजच्छत्र ) लगा हुआ था। किन्तु चमकते उस सुफेद छत्र ने सारे संसार के उस सन्ताप को दूर कर दिया, जो कि पूर्ववर्ती राजा कुश के वियोग से उत्पन्न हुआ था। अर्थात् अतिथि ने राजगद्दी पर बैठते ही अपने उत्तम व्यवहार से प्रजा के कष्ट को दूर कर दिया।
विशेष—इस श्लोक में छत्र लगाना और सन्तापहरण रूप, कारण व कार्य के अलगअलग देश में होने से 'असंगति' अलंकार है ॥ ३३ ॥
धमादग्नेः शिखाः पश्चादुदयादंशवो रवेः ।
सोऽतीत्य तेजसा वृत्ति सममेवोत्थितो गुणैः ॥३४॥ अग्नेधूमात्पश्चात् । अनन्तरमित्यर्थः। शिखा ज्वालाः। रवेरुदयात्पश्चादनन्तरमंशवः।