________________
सप्तदशः सर्गः
३९१
प्रसन्नमुखरागं तं स्मितपूर्वामिभाषिणम् ।
मूर्तिमन्तममन्यन्त विश्वासमनुजीविनः ॥ ३१ ॥ प्रसन्नो मुखरागो मुखकान्तिर्यस्य तं स्मितपूर्व यथा तथाभिभाषिणमाभाषणशीलं तमतिथिमनुजीविनो मूर्तिमन्तं विग्रहवन्तं विश्वासं विस्रम्भममन्यन्त । 'समौ विस्रम्भविश्वासौ' इत्यमरः ।।
अन्वयः-प्रसन्नमुखरागं स्मितपूर्वाभिभाषिणं तम् अनुजीविनः मूर्तिमन्तं विश्वासम्
अमन्यन्त।
व्याख्या-मुखस्य रागः = कान्तिरिति मुखरागः, प्रसन्नः = निर्मल: स्वच्छः देदीप्यमान इत्यर्थः मुखरागः = आननकान्तिर्यस्य स तं प्रसन्नमु वरागम् स्मितम् = ईषद्धास्यं पूर्व = प्रथम यस्मिन्कर्मणि तत् स्मितपूर्वं यथा स्यात्तथा अभिभाषते तच्छीलः स्मितपूर्वाभिभाषी तम् स्मित. पूर्वाभिभाषिणम् तम् = राजानमतिथिम् , अनु = पश्चात् जीवन्तीति अनुजोविनः = अनुचराः सेवका इत्यर्थः। मूर्तिरस्यास्तीति मूर्तिमान् तं मूर्तिमन्तं = शरीरवन्तं विश्वसनं विश्वासस्तं विश्वासं = विस्रम्भम् अमन्यन्त = स्वीकुर्वन्ति स्म । “समौ विस्रम्भविश्वासौ" इत्यमरः।
समासः-मुखस्य रागः मुखरागः, प्रसन्नः मुखरागो यस्य स तं प्रसन्नमुखरागम् । स्मितपूर्व यथा स्यात्तथा अभिभाषी तं स्मितपूर्वाभिभाषिणम् ।
हिन्दी-प्रसन्न चेहरेवाले (खिले चेहरे वाले ) मुसकराकर बोलने वाले, उस राजा अतिथि को उनके सेवक साक्षात् मूर्तिमान् विश्वास मानते थे। अर्थात् राजा को वे विश्वास का मूर्तिमान रूप मानते थे ॥ ३१ ॥
स पुरं पुरुहूतश्रीः कल्पद्रुमनिमध्वजाम् ।
क्रममाणश्चकार द्यां नागेनैरावतौजसा ॥ ३२ ॥ पुरुहूतश्रीः सोऽतिथिः कल्पद्रुमाणां निभाः समाना ध्वजा यस्यास्तां पुरमयोध्यामरावतस्य ओज इवौजो बलं यस्य तेन नागेन कुञ्जरेण क्रममाणश्चरन् । 'अनुपसर्गादा' इति वैकल्पिकमात्मनेपदम् । द्यां चकार । स्वर्गलोकसदृशीं चकारेत्यर्थः । 'योः स्वर्गसुरवर्त्मनोः' इति विश्वः ॥
अन्वयः-पुरुहूतश्रीः सः कल्पद्रुमनिभध्वजाम् पुरम् ऐरावतीजसा नागेन क्रममाणः यां चकार।
व्याख्या-पुरु = प्रचुरं हूतम् = आह्वानं यज्ञेषु यस्य स पुरुहूतः। पुरूणि हूतानि = नामानि यस्य स इति वा पुरुहूतः = इन्द्रस्तस्य श्रीरिव श्रीः यस्य स पुरुहूतश्री सः = अतिथिः कल्पस्य - संकल्पितार्थस्य द्रुमः = वृक्षस्तस्य निभाः =समानाः ध्वजाः = पताकाः यस्याः सा तां कल्पद्रुमनिभध्वजाम् पुरम् = अयोध्याम् इराः = उदकानि सन्त्यस्य इरावान् । इरावति =समुद्र भवः ऐरावतः, तस्य ओजः इव ओजो बलं यस्य स तेन ऐरावतौजसा नागेन = गजेन क्रममाणः = चरन् , गच्छन्नित्यर्थः द्यां - स्वर्गम् = अमरावतीमित्यर्थः चकार = कृतवान् ।