________________
३९४
रघुवंशे
घूमती रहती हैं। वैसे ही नगर की स्त्रियों की प्रेमभरी आँखें राजा अतिथि के पीछे गई। अर्थात् नगर की स्त्रियां ने प्रेमभरी आँखों से राजा को देखा ॥ ३५॥
अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिताः ।
अनुदध्युरनुध्येयं सांनिध्यः प्रतिमागतैः ॥३६॥ प्रशस्तेष्वायतनेष्वालयेष्वचिंता अयोध्यादेवताश्चानुध्येयमनुग्राह्यमेनमतिथि प्रतिमागतैरर्चासंक्रान्तैः सांनिध्यैः संनिधानैरनुदध्युरनुजगृहुः । 'अनुध्यानमनुग्रहः' इत्युत्पलमालायाम् । तदनुग्रहबुद्धया संनिदधुरित्यर्थः ॥
अन्वयः---प्रशस्तायतनार्चिताः अयोध्यादेवताः अनुध्येयम् एनम् प्रतिमागतैः सान्निध्यैः अनुदध्युः।
व्याख्या–प्रशस्तानि = मनोहराणि विशालानि यानि आयतनानि मन्दिराणि तेषु अर्चिताः = पूजिताः, इति प्रशस्तायतनार्चिताः अयोध्यायाः =स्वराजधान्याः देवताः = देवाः सूर्यादयः इति अयोध्यादेवताः अनुध्यातुं योग्यः अनुध्येयस्तम् अनुध्येयम् = अनुग्राह्यम् एनं = राजानम्अतिथिं प्रतिमासु मूर्तिषु, मन्दिरस्थदेवविग्रहेष्वित्यर्थः आगतानि आक्रान्तानि गतानि संक्रान्तानि वा तैः प्रतिमागतैः सान्निध्यैः = संन्निधिकरणैः = सामीप्यरित्यर्थः अनुदध्युः = अनुग्रहं कृतवन्तः । पूजावसरे मन्दिरस्थदेवप्रतिमासु तदनुग्रहेच्छया सन्निधिं चक्रुरित्यर्थः ।
समासः-अयोध्यायाः देवता अयोध्यादेवताः। प्रशस्तानि तानि आयतनानीति प्रशस्तायतनानि तेषु अर्चिताः प्रशस्तायतनार्चिताः । प्रतिमासु गतानि तैः प्रतिमागतैः ।
हिन्दी-अयोध्या नगरी के विशाल एवं श्रेष्ठ मन्दिरों में जिन देवताओं की पूजा की गई, उन देवताओं ने अपनी मूर्तियों में आकर ( बैठकर ) अनुग्रह ( कृपा ) करने के योग्य राजा अतिथि के ऊपर कृपा को ॥ ३६ ॥
यावन्नाश्यायते वेदिरभिषेकजलाप्लुता ।
तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः ॥३७॥ अभिषेकजलैराप्लुता सिक्ता वेदिरभिषेकवेदिर्यावन्नाश्यायते न शुष्यति । कर्तरि लट् । तावदेवास्य राज्ञो दुःसहः प्रतापो वेलान्तं वेलापर्यन्तं प्राप ॥
अन्वयः-अभिषेकजलाप्लुता वेदिः यावत् न आश्यायते, तावत् एव अस्य दुःसहः प्रतापः वेलान्तं प्राप।
व्याख्या-अभिषेकस्य = राज्याभिषेकस्य जलानि = अम्भांसि तैः आप्लुता = क्लिन्ना सिक्ता, इति अभिषेकजलाप्लुता, वेदिः= अभिषेकवेदिः, परिष्कृता भूमिः यावत् यावता कालेन न आश्यायते = न शुष्यति तावत् = तावता कालेन अस्य = राशो अतिथेः दुःखेन सह्यते इति