________________
३८८
रघुवंशे स्वशृङ्गारं पश्यतः तस्य = राज्ञोऽतिथेः छाया = प्रतिबिम्बम्, कत्रों, उदिते = उत्पन्ने, उदयं गते सुवति लोकं कर्मणि प्रेरयतीति सूर्यस्तस्मिन् सूर्ये = आदित्ये दर्पणकल्पे मिनोति ज्योतींषि, उच्चत्वात् , इति मेरुः तस्मिन् मेरौ= सुमेरुपर्वते कल्पस्य =संकल्पितार्थस्य तरुः = वृक्षस्तस्य कल्पतरोः छाया = प्रतिबिम्बम् इव = यथा विरराज = विशेषेण शुशुभे।
समासः-नेपथ्यस्य दर्शी तस्य नेपथ्यदर्शिनः। कल्पस्य तरुः कल्पतरुस्तस्य कल्पतरोः ।
हिन्दी-सोने के चोखटे ( फ्रम ) में लगे शीशे में अपनी वेष रचना ( शृंगार की सजावट ) देखने वाले राजा अतिथि ( अर्थात् देखते समय ) का प्रतिबिम्ब ऐसा लग रहा था, मानो सूर्योदय के समय सुमेरु पर्वत पर कल्पवृक्ष की छाया पड़ रही हो ॥ २६ ॥
स राजककुदव्यग्रपाणिमिः पार्श्ववर्तिभिः ।
ययावुदीरितालोकः सुधर्मानवमां सभाम् ॥ २७ ॥ सोऽतिथी राजककुदानि राजचिह्नानि छत्रचामरादीनि । 'प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्' इत्यमरः । तेषु व्यग्राः पाणयो येषां तैः पार्श्ववर्तिभिर्जनैरुदीरितालोक उच्चारितजयशब्दः । 'आलोको जयशब्दः स्यात्' इति हलायुधः । सुधर्माया देवसभाया अनवमामन्यूनां सभामास्थानीं ययौ । 'स्यात्सुधर्मा देवसभा' इत्यमरः ॥
अन्वयः-सः राजककुदव्यग्रपाणिभिः पार्श्ववर्तिभिः उदीरितालोकशब्दः सुधर्मानवमाम् सभाम् ययौ।
व्याख्या-कं = सुखं कौतीति ककुदम् । राज्ञां = भूपालनां ककुदानि = चिह्नानि छत्रचामरादीनि, इति राजककुदानि, तेषु व्यग्राः =संलग्नाः पाणयः= हस्ताः येषां ते तैः राजककुदव्यग्रपाणिभिः “ककुत् ककुदं श्रेष्ठे वृषांगे राजलक्ष्मणि" इति विश्वः । पार्श्वे = समीपे वर्तन्ते तच्छीलाः पार्श्ववर्तिनस्तैः पार्श्ववर्तिभिः जनैः उदीरितः = उच्चारितः आलोकः- जयशब्दः यस्य सः उदीरितालोकः “आलोको जयशब्दः स्यात्" इति कोशः। सुशोभनः धर्मः यस्यां सा सुधर्मा ( डाप्प्रत्ययान्तः ) अवति आत्मानमस्मात् अवमः = अधमः न अवमा अनवमा सुधर्मायाः = देवसभायाः अनवमा=अन्यूना तां सुधर्मानवमां देवसभातुल्यामित्यर्थः । सह भान्ति यस्या सा सभा तां सभाम् =शालां ययौ =जगाम ।
समासः-राज्ञां ककुदाः रांजककुदास्तेषु व्यग्राः पाणयः येषां ते तैः राजककुदव्यग्रपाणिभिः । पावें वर्तिनस्तैः पार्श्ववर्तिभिः। उदीरितः आलोकः यस्य सः उदीरितालोकः । सुधर्मायाः न अवमा =ताम् सुधर्मानवमाम् ।
हिन्दी-"तब वेष धारणकर" राजा अतिथि अपनी उस सभा में चल गये, जो कि सुधर्मा नाम की देवताओं की सभा से किसी प्रकार कम नहीं थी। और राजाओं के चिह्न छत्र चामर हाथ में लिये सेवक लोग उनकी जय-जय बोल रहे थे। अर्थात् अतिथि की जयकार कर रहे थे ॥ २७ ॥