________________
सप्तदशः सर्गः
३०७ राज्यश्रीरेव वधूर्नवोढा तस्या वरो वोढा। 'वधूः स्नुषा नवोढा स्त्री वरो जामातृषिङ्गयोः' इति विश्वः । सोऽतिथिरतिशयेन प्रेक्ष्यो दर्शनीय आसीत् । वरोऽप्येवंविशेषणः ॥
अन्वयः-आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् राज्यश्रीवधूवरः सः अतिशयप्रेक्ष्यः आसीत् ।
व्याख्या-आमुक्तानि = आसञ्जितानि-धारितानीत्यर्थः, आभरणानि =भूषणानि येन सः आमुक्ताभरणः स्रजः = पुष्पमालाः सन्त्यस्य स स्रग्वी, हंसाः = श्वेतगरुतः चिह्नमस्य तत् हंसचिह्न हंसचिह्न यत् दुकूलं = पट्टवस्त्रमस्यास्तीति हंसचिह्नदुकूलवान् राज्यस्य श्रीरिति राज्यश्रीः = राज्यलक्ष्मीः एव वधूः = नवोढा, इति राज्यश्रीवधूः तस्याः वरः = वोढा वरणकर्ता, इत्यर्थः । इति राज्यश्रीवधूवरः सः= राजातिथिः अतिशयेन = विशेषेण प्रेक्षितुं योग्यः अतिशयप्रेक्ष्यः- अतीवदर्शनीयः आसीत् = जातः । वरोऽपि आमुक्ताभरणः, हंसचिह्नदुकूलवान्, अतिशयप्रेषणीयो भवतीति ।
समासः--आमुक्तानि आभरणानि येन सः आमुक्ताभरणः। हंसाः चिह्नमस्येति हंसचिह्न, दुकूलमस्ति अस्य स हंसचिह्नदुकूलवान् । अतिशयेन प्रेक्ष्यः अतिशयप्रेक्ष्यः। राज्यस्य श्रीरिति राज्यश्रीः सा एव वधूरिति राज्यश्रीवधूः तस्याः वरः, इति राज्यश्रीवधूवरः।
हिन्दी-जेवर पहने हुए, और पुष्पमाला पहने तथा हंसचित्र छपे दुपट्टे को ओढ़े हुए वह राजा अतिथि ऐसे अत्यन्त दर्शनीय ( अतिसुन्दर ) दीख पड़ रहे थे, मानो राज्यलक्ष्मी रूपी बहू के वर ( दुलहा ) हों।
विशेष—यहाँ पर 'हंसचिह्न दुकूलमस्येति' बहुव्रीहिसमास करके इष्ट अर्थ बन जाता है। अतः मतुम्प्रत्यय व्यर्थ है ऐसी शंका नहीं करना, क्योंकि 'सर्वधनी' की तरह कर्मधारयसमास करके भी मतुप् प्रत्यय करते हैं ॥ २५ ॥
नेपथ्यदर्शिनश्छाया तस्यादर्श हिरण्मये ।
विरराजोदिते सूर्ये मेरौ कल्पतरोरिव ॥ २६ ॥ हिरण्मये सौवर्ण आदर्श दर्पणे नेपथ्यदर्शिनो वेषं पश्यतस्तस्यातिथेश्छाया प्रतिबिम्बम् । उदिते सूर्ये दर्पणकल्पे मेरौ यः कल्पतरुस्तस्य छायेव विरराज। तस्य सूर्यसंक्रान्तबिम्बस्य संभवान्मेरावित्युक्तम् ॥ __ अन्वयः-हिरण्मये आदर्श नेपथ्यदर्शिनः तस्य छाया उदिते सूयें मेरौ कल्पतरोः छाया इव रराज।
. व्याख्या-हिनोति, हीयते वा हिरण्यं = सुवर्णं तस्य विकारो हिरण्मयं तस्मिन् हिरण्मये = सौवणे 'दाण्डिनायन०' इत्यादिसूत्रेण निपातनात् साधुः । आदृश्यते रूपं यत्र सः आदर्शः = दर्पणः तस्मिन् आदर्श नेपथ्यं = वेषं प्रसाधनं पश्यति तच्छीलः नेपथ्यदशी, तस्य नेपथ्यदर्शिनः =