________________
रघुवंशे
धम्मिल्लम्, प्रभायाः = कान्तेः मण्डलं =समूहस्तेन शोभते = शालते तच्छीलस्तैन प्रभामण्डलशोभिना पद्ममिव रागोऽस्य स पद्मरागस्तेन पद्मरागेण = लोहितकेन माणिक्येनेत्यर्थः “शोणरत्नं लौहितकः पद्मरागः" इत्यमरः । प्रत्यूपुः = जटितम् चक्रुः ।
समासः-मुक्तानां गुणस्तेन मुक्तागुणेन उन्नद्धस्तं मुक्तागुणोन्नद्धम् । अन्तर्गता स्रक् यस्मिन् स तम् अन्तर्गतस्रजम् । प्रभायाः मण्डलं प्रभामण्डलं तेन शोभी तेन प्रभामण्डलशोभिना। पद्ममिव रागः यस्य स तेन पद्मरागेण ।
हिन्दी-मोतियों की लड़ी से गूथे हुए, और फूलों की माला से सजाये गये राजा अतिथि के मरतक पर उन शृंगारियों ने वह माणिक्य ( लालमणि ) पहना दिया, जिसकी कान्ति का समूह ( तेज चमक ) चारों तरफ फैल रहा था ॥ २३ ॥
चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना ।
समापय्य ततश्चक्रुः पत्रं विन्यस्तरोचनम् ॥ २४ ॥ किंच। मृगनाभ्या कस्तू रिकया सुगन्धिना चन्दनेनाङ्गरागमङ्गविलेपनं समापय्य समाप्य ततोऽनन्तरं विन्यस्ता रोचना गोरोचना यस्मिंस्तत्पत्रं पत्ररचनं चक्रुः ॥
अन्वयः-च मृगनाभिसुगन्धिना चन्दनेन अङ्गरागं समापय्य ततः विन्यस्तरोचनं पत्रं चक्रुः ।
व्याख्या--च = किञ्च मृगस्य = हरिणस्य नाभिः = अङ्गविशेषः इति मृगनाभिः, मृगनाभ्या = कस्तूरिकया सुगन्धि =सुरभि तेन मृगनाभिसुगन्धिना चन्दयति = आल्हादयतीति चन्दनं =मलयजं तेन चन्दनेन अंगस्य = देहस्य रागः = विलेपनं तम् अंगरागं समापय्य = परिसमाप्य ततः = अनन्तरम् विशेषेण न्यस्ता=कृता रोचना = गोपित्तं यस्मिन् तत्, विन्यस्तरोचनं-पत्रं = रचनां चक्रुः = कृतवन्तः, मुखे गोरोचनया पत्ररचनां कृतवन्तः इत्यर्थः ।
समासः-मृगस्य नाभिः मृगनाभिः तया शोभनः गन्धः अस्य तत् तेन मृगनाभिसुगन्धिना। अंगस्य रागस्तम् अङ्गरागम् । विन्यस्ता रोचना यस्मिन् तत् विन्यस्तरोचनम् ।
हिन्दी-और कस्तूरी की सुगन्धी मिले चन्दन से राजा के शरीर में उबटन का लेप लगाकर गोरोचन ( गोलोचन ) से मुखपर पत्ररचना की। अर्थात् केसरिया रंग की फूलपत्ती राजा के मुख पर बनाई ॥ २४ ॥
आमुक्ताभरणः स्रग्बी हंसचिह्नदुकूलवान् ।
आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः ॥ २५ ॥ आमुक्ताभरण आसञ्जिताभरणः। स्रजोऽस्य सन्तीति स्रग्वी। 'अस्मायामेधास्रजो विनिः' इति विनिप्रत्ययः। हंसाश्चिह्नमस्येति हंसचिह्नं यद्दकूलं तद्वान् । अत्र बहुव्रीहिणैवार्थसिद्धर्मतुबानर्थक्येऽपि सर्वधनीत्यादिवत्कर्मधारयादपि मत्वर्थीयं प्रत्ययमिच्छन्ति । एवमन्यत्रापि द्रष्टव्यम् ।