________________
२५
सप्तदशः सर्गः
के लिये, हाथी दान्त के बने हुए स्वच्छ पवित्र सिंहासन ( या चौकी ) पर जा बैठे, जो कि महल के भीतरी कमरे में रखा हुआ था और उसके ऊपर चादर बिछी हुई थी ॥ २१ ॥
तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः ।
आकल्पसाधनस्तैस्तैरुपसेदुः प्रसाधकाः ॥ २२ ॥ तोयेन निर्णिक्तपाणयः क्षालितहस्ताः प्रसाधका अलंकारो धूपेन गन्धद्रव्यधूपेनाश्यानकेशान्तं शोषितकेशपाशान्तं तमतिथिं तैस्तैराकल्पस्य नेपथ्यस्य साधनैर्गन्धमाल्यादिभिरुपसेदुरुपतस्थुः । अलंचकुरित्यर्थः ॥ __ अन्वयः--तोयनिर्णिक्तपाणयः प्रसाधकाः धूपाश्यानकेशान्तं तं तैः तैः आकल्पसाधनैः उपसेदुः।
व्याख्य-तौति इति तोयं तुः सौत्र आवरणार्थः, तस्मादुणादिः यः प्रत्ययः । तोयेन = जलेन निर्णिक्तौ = प्रक्षालितौ पाणी- हस्तौ यैस्ते तोयनिर्णिक्तपाणयः प्रकर्षेण साध्नुवन्ति = अलंकुर्वन्तीति प्रसाधकाः = अलङ्कारः सेवकाः धूपेन = अगुरुधूपेन आश्यानः =शोषितः केशानां = कचानाम् अन्तः = अग्रभागः यस्य स तं धूपाश्यानकेशान्तम् तम् = अतिथिम् तैः तैः = प्रसिद्धः आकल्पस्य = नेपथ्यस्य साधनानि = वस्त्राभरणसुरभिमाल्यादीनि तैः आकल्पसावनैः उपसेदुः = उपतस्थुः = प्रसाधयाञ्चकुरित्यर्थः ।
समास:-तोयेन निणिक्ताः पाणयः यस्ते तोयनिर्णिक्तपाणयः। आकल्पस्य साधनानि तैः आकल्पसाधनः। केशानाम् अन्तः केशान्तः, धूपेन आश्यानः केशान्तः यस्य स तं धूपाश्यानकेशान्तम् । प्रकर्षण साधकाः प्रसाधकाः।
हिन्दी-जल से जिन्होंने हाथ धो लिये हैं, ऐसे शृंगार करने वालों ने, धूप से सुगन्धित सुखाये गये केश ( बाल ) वाले राजा अतिथि को उन उन शृंगार सामग्रियों ( वस्त्र भूषण पुष्पमालादि ) से सजा दिया । अर्थात् राजोचित वस्त्र भूषणादि पहनाकर तैयार कर दिया ॥ २२ ॥
तेऽस्य मुक्तागुणोन्नद्धं मौलिमन्तर्गतस्रजम् ।
प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना ॥ २३ ॥ ते प्रसाधका मुक्तागुणेन मौक्तिकसरेणोन्नद्धमुद्बद्धमन्तर्गतस्रजमस्यातिथेर्मोलिं धम्मिल्लं प्रभामण्डलशोभिना पद्मरागेण माणिक्येन प्रत्यूपुः प्रत्युप्तं चक्रुः ॥
अन्वयः–ते मुक्तागुणोन्नद्धम् अन्तर्गतस्रजम् अस्य मौलिं प्रभामण्डलशोभिना पद्मरागेण
प्रत्यूपुः।
व्याख्या ते = प्रसिद्धाः प्रसाधकाः मुक्तानां = मौक्तिकानां गुणः = सरः हार इत्यर्थः, इति मुक्तागुणस्तेन मुक्तागुणेन = मौक्तिकहारेण उन्नद्धं = ग्रथितं, बद्धमिति मुक्तागुणोन्नद्धम् , अन्तगंता= अन्तर्बद्धा स्रक् = पुष्पमाला यस्मिन् स तम् अन्तर्गतस्रजम् अस्य =राशोऽतिथेः मौलिम् -