________________
सप्तदशः सर्गः
३८९
वितानसहितं तत्र भेजे पैतृकमासनम् ।
चूडामणिभिरुघृष्टपादपीठं महीक्षिताम् ॥२८॥ तत्र सभायां वितानेनोल्लोचेन सहितम् । 'अस्त्रो वितानमुल्लोचः' इत्यमरः । महीक्षितां राशां चूडामणिभिः शिरोरत्नैरुघृष्टमुल्लिखितं पादपीठं यस्य तत् । पितुरिदं पैतृकम् । 'ऋतष्ठञ्' इति ठप्रत्ययः । आसनं सिंहासनं भेजे ॥
अन्वयः-तत्र वितानसहितं महीक्षितां चूडामणिभिः उद्धृष्टपादपीठम् पैतृकम् आसनं भेजे। व्याख्या-तत्र=सभायाम् वितन्वते इति बितानः वितानेन = उल्लोचेन सहितं = युक्तमिति तत् वितानसहितम् । महीं मह्यां वा क्षियन्तीति महीक्षितस्तेषां महीक्षितां = भूपालानाम् चूडायाः मणयः चूडामणयस्तैः चूडामणिभिः = शिरोरत्नैः "चूडामणिः शिरोरत्नम्" इत्यमरः । उद्धृष्टम् = उल्लिखितं पादानां = चरणानां पीठम् = आसनं यस्य तत् उद्धृष्टपीदपीठम् , पितुरिदं पैतृकं पितृसंबन्धि आसनं = सिंहासनं भेजे= तत्रोपविष्ट इत्यर्थः ।
समासः-वितानेन सहितमिति वितानसहितं तत् । चूडायाः मणयः चूडामणयस्तैः चूडामणिभिः । पादानां पीठमिति पादपीठम् तत् । मह्याः क्षितः महीक्षितस्तेषां महीक्षिताम् ।
हिन्दी-उस सभा में चंदोवा लगे हुए ( शामयाने के नीचे ) राजाओं की मुकुट-मणियों की रगड़ से ( प्रणाम करते समय ) जिसका पावदान घिस गया था, ऐसे अपने पूर्वजों के सिंहासन पर अतिथि बैठ गये ॥ २८ ॥
शुशुभे तेन चाक्रान्त मङ्गलायतनं महत् ।
श्रीवत्सलक्षण वक्षः कौस्तुभेनेव कैशवम् ॥२९॥ __तेन चाक्रान्तम् । श्रीवत्सो नाम चिह्नविशेषः। तल्लक्षणं श्रीवत्सरूपम् । 'श्रीवत्सनन्यावर्तादिविच्छेदा बहवो द्वयोः' इति सज्जनः। महदधिक मङ्गलायतनं मङ्गालगृहसभारूपम् । कौस्तुभेन मणिनाक्रान्तं श्रीवत्सलक्षणम् । केशवस्येदं कैशवं वक्ष इत्र शुशुभे ॥ ___ अन्वयः तेन च आक्रान्तं श्रीवत्सलक्षणं महत् मंगलायतनम् कौस्तुभेन “आक्रान्तं श्रीवत्सलक्षणं' कैशवम् वक्षः इव शुशुभे ।
व्याख्या-तेन = कारणेन, अतिथ्युपवेशनेनेत्यर्थः च आक्रान्तम् = अधिष्ठितम् श्रीयुक्तः वत्सः = महत्त्वलक्षणश्वेतरोमावर्तविशेषः दुर्वाससः पादापातरूपः रेखाविशेषो वा लक्षणं चिह्न यस्य तत् श्रीवत्सलक्षणम् , ( श्रीवत्सनामगृहविशेषलक्षणं राजपक्षे )। महत् = अधिकम् मंगलस्य = शुभरय आयतनं = गृहमिति मंगलायतनम् । कुं = पृथिवीं स्तुभ्नाति = व्याप्नोतीति कुस्तुभः = समुद्रः तत्र भवः कौस्तुभः, कुं स्तोभते इति कुस्तुभः = विष्णुः तस्यायं कौस्तुभः इति वा । कौस्तुभेन = मणिना आक्रान्तं श्रीवत्सलक्षणं प्रशस्ताः केशाः सन्त्यस्येति केशवः । कश्च ईशश्च