________________
सप्तदशः सर्गः
३८१
समासः - शब्देन सहितं सशब्दम् । ओघेन महती ओघमहती । अभिषेकस्य श्रीरिति अभिषेकश्रीः । त्रयाणां पुराणां द्विट् इति त्रिपुरद्विट् तस्य त्रिपुरद्विषः ।
हिन्दी- -- राजा अतिथि के शिर पर झर झर करके गिरती हुई, तथा अधिक जलप्रवाह वाली अभिषेक के जल की शोभा ऐसी लग रही थी, मानो त्रिपुरारि शिव जी के मस्तक पर गंगाजी की धारा गिर रही हो ॥ १४ ॥
स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स बन्दिभिः । प्रवृद्ध इव पर्जन्यः सारङ्गैरभिनन्दितः ॥ १५॥
तस्मिन्क्षणेऽभिषेककाले बन्दिभिः स्तूयमानः सोऽतिथिः प्रवृद्धः प्रवृद्धवान् । कर्तरि क्तः । अत एव सारङ्गैश्चातकैरभिनन्दितः पर्जन्यो मेघ इव । अलक्ष्यत ॥
श्रभ्वयः--तस्मिन् क्षणे वन्दिभिः स्तूयमानः सः प्रवृद्धः " अत एव " सारंगैः अभिनन्दितः पर्जन्यः इव अलक्ष्यत ।
व्याख्या--तस्मिन् क्षणे = उक्ताभिषेकसमये वन्दिभिः = स्तुतिपाठकैः स्तूयतेऽसौ स्तूयमानः = गीयमानः सः = अतिथिः प्रकर्षेण वृद्धः प्रवृद्धः = प्रवृद्धवान् अत एव सारम् अंगं येषां ते तैः सारंगैः, सारं गच्छन्तीति वा सारंगास्तैः सारंगैः = चातकैः अभिनन्दितः = प्रशंसितः पर्जन्यः = मेघः इत्र = यथा अलक्ष्यत = अदृश्यत !
हिन्दी - अभिषेक के समय भाट चारण लोगों से यशोगान किया गया वह राजा अतिथि खूब श्रीसम्पन्न होकर ऐसा लग रहा था, जैसा कि चातक पक्षियों से अभिनन्दन किया गया बादल हो ॥ १५ ॥
तस्य सन्मन्त्रपूताभिः स्नानमद्भिः प्रतीच्छतः ।
वृधे वैद्युतस्याग्नेर्वृष्टिसेकादिव शुतिः ॥ १६ ॥
सन्मन्त्रैः पूताभिः शुद्धाभिरद्भिः स्नानं प्रतीच्छतः कुर्वतस्तस्य वृष्टिसेकात् । विद्युतोऽयं वैद्युततस्याबिन्धनस्याग्नेरिव द्युतिर्ववृधे ॥
अन्वयः—सन्मंत्रपूताभिः अद्भिः स्नानं प्रतीच्छतः तस्य वृष्टिसेकात् वैद्युतस्य अग्नेः इव द्युतिः ववृधे ।
व्याख्या—सन्तश्च ते मंत्राः सन्मंत्रास्तैः सन्मंत्रैः = पुण्यमंत्रैः पूताः = पवित्राः = शुद्धाः ताभिः सन्मंत्रपूताभिः अद्भिः =जलैः स्नानम् = आप्लावम् “आप्लाव : आप्लवः स्नानम्” इत्यमरः । प्रतीच्छतीति प्रतीच्छन् तस्य प्रतीच्छतः = कुर्वतः तस्य = अतिथेः वृष्टेः=वर्षणस्य सेकः = जलं तस्मात् वृष्टिसेकात् विशेषेण द्योतते इति विद्युत्, विद्युतः अयं वैद्युतस्तस्य वैद्युतस्य: अबिन्धनस्य, तडित्संबन्धिनः अग्नेः = पावकस्य इव = यथा द्युतिः = दीप्तिः ववृधे = प्रवृद्धा ।