________________
रघुवंशे दूर्वांकुरप्लक्षत्वगभिन्नपुटोत्तरान् , शातिषु वृद्धास्तैः शातिवृद्धैः । नीराजनायाः विधयस्तान् नीराजनाविधीन्। - हिन्दी-दूब जौ के अंकुर और बड़ की छाल तथा नए नए ( अविकसित पत्ते ) पल्लवों से युक्त, और जाति के बड़े बूढ़ों के द्वारा को गई आरती पूजा को राजा अतिथि ने स्वीकार किया ॥ १२ ॥
पुरोहितपुरोगास्तं जिष्णुं जैत्ररथर्वभिः।
उपचक्र.मिरे पूर्वमभिषेक्तुं द्विजातयः ॥ १३ ॥ पुरोहितपुरोगाः पुरोहितप्रमुखा द्विजातयो ब्राह्मणा जिष्णुं जयशीलं तमतिथिं जैत्रैर्जयशीलरथर्वभिमन्त्रविशेषैः करणः पूर्वमभिषेक्तुमुपचक्रमिरे ॥
अन्वयः-पुरोहितपुरोगाः द्विजातयः जिष्णुं तं जैत्रैः अथर्वभिः पूर्वम् अभिषेक्तुम् उपचक्रमिरे ।
व्याख्या-पुरः = अग्रे धर्मकार्येषु गच्छन्तीति पुरोगाः, पुरः धीयन्ते इति पुरोहिताः । पुरोहिताः == पुरोधसः पुरोगाः = अग्रगामिनः येषां ते पुरोहितपुरोगाः द्वे जाती = जन्मनी येषां ते द्विजातयः = ब्राह्मणाः जिष्णुं = जयशीलं तं=राजानमतिथिं जैत्रः = जयशीलैः अथर्वभिः = अथर्ववेदमंत्रैः करणैः पूर्व = प्रथमम् अभिषेक्तुम् = अभिषेकं कर्तुम् उपचक्रमिरे = उपचक्रमुः ।
समासः-पुरोहिताः पुरोगाः येषां ते पुरोहितपुरोगाः । द्वे जाती येषां ते द्विजातयः । हिन्दी-पुरोहित को आगे करके ब्राह्मणों ने विजयशील राजा अतिथि का विजय देनेवाले अथर्ववेद के मंत्रों से पहले अभिषेक आरम्भ किया ॥ १३ ॥
तस्यौधमहती मूर्धिन निपतन्ती व्यरोचत ।
सशब्दमभिषेकश्रीगङ्गेव त्रिपुरद्विषः ॥ १४ ॥ तस्यातिथेमूनि सशब्दं निपतन्त्योघमहती महाप्रवाहा। अभिषिच्यतेऽनेनेत्यभिषेको जलम् स एव श्रीः। यद्वा तस्य श्रीः समृद्धिस्त्रिपुरद्विषः शिवस्य मूर्ध्नि निपतन्ती गङ्गेव व्यरोचत । त्रयाणां पुराणां द्वेष्टीति विग्रहः ॥
अन्वयः-तस्य मूर्ध्नि सशब्दं निपतन्ती ओवमहती अभिषेकश्रीः= त्रिपुरद्विषः “मूनिनिपतन्ती” गंगा इव व्यरोचत ।
व्याख्या-तस्य = अतिथेः मूनि = मस्तके शब्देन सहितं सशब्दं = सध्वनि नितरांपतन्ती निपतन्ती = स्खलन्ती आ उह्यतेऽनेनेति ओघः = जलप्रवाहः, ओघेन महती ओघमहती = महाप्रवाहा अभिषेकस्य = जलस्य या श्रीः = शोभा, इति अभिषेकश्रीः अभिषेकजलशोभेत्यर्थः । त्रयाणां पुराणां = नगराणां द्वष्टीति त्रिपुरविट् तस्य त्रिपुरद्विषः = शिवस्य मूर्ध्नि पतन्ती गंगा = भागीरथी इव = यथा व्यरोचत = शुशुभे।