________________
सप्तदशः सर्गः
मधुरं गम्भीरं च नदद्भिस्तूयस्तस्यातिथेरविच्छिन्नसंतत्यविच्छिन्नपारम्पर्य कल्याणं भावि शुभमन्वमीयतानुमितम् ॥
अन्वयः-आहतपुष्करैः स्निग्धगम्भीरं नदद्भिः तूयः तस्य अविच्छिन्नसन्तति कल्याणम् अन्वमीयत।
व्याख्या आहतम् = ताडितं पुष्करं = वाद्यभाण्डमुखं येषां ते तैः आहतपुष्करैः "पुष्कर तूर्यवक्त्रे च काण्डे खङ्गफलेऽपि चेति" विश्वः। स्निग्धं = मधुरं गम्भीरं गभीरं चेति स्निग्ध. गम्भीरं नदद्भिः= ध्वनद्भिः तूयः = वाद्यविशेषैः तस्य =राज्ञोऽतिथेः अविच्छिन्ना = अत्रुटिता संततिः= परम्परा यस्मिन् , तत् अविच्छिन्नसन्तति कल्याणं = भद्रं-शुभमिति अन्वमीयत = अनुमितम् । मधुरगम्भीरध्वनि कुर्वद्भिः मञ्जीरैः तस्य भाविशुभं सूचितमित्यर्थः।
समासः-स्निग्धं गम्भीरं च यथा स्यात् स्निग्धगम्भीरम् । आहतं पुष्करं येषां ते तैः आहतपुष्करैः। अविच्छिन्ना सन्ततिः यत्र अविच्छिन्नसन्तति ।।
हिन्दी-थाप पड़ने पर मृदंग तथा फूंकने पर तुरही आदि मधुर और गम्भीर ध्वनि करने वाले ( बजने वाले ) बांजों के द्वारा उस राजा अतिथि के उस भावि कल्याण का अनुमान किया गया, जिसको परम्परा सर्वदा चलती रहेगी। अर्थात् राजा का सदा ही कल्याण होता रहेगा ॥ ११ ॥
दूर्वायवाङ्कुरप्लक्षत्वगमिन्नपुटोत्तरान् ।
ज्ञातिवृद्धः प्रयुक्तान्स भेजे नीराजनाविधीन् ॥ १२ ॥ सोऽतिथिः । दूर्वाश्च यवाङ्कराश्च प्लक्षत्वचश्चाभिन्न पुटा बालपल्लवाश्चोत्तराणि प्रधानानि येषु तान् । अभिन्नपुटानि मधूकपुष्पाणीति केचित् । कमलानीत्यन्ये । शातिषु ये वृद्धास्तैः प्रयुक्तान्नीराजनाविधीन्मेजे ॥
अन्वयः-सः दूर्वायवांकुरमक्षत्वगभिन्नपुटोत्तरान् शातिवृद्धः प्रयुक्तान् नोराजनावि
धीन् भेजे।
व्याख्या-सः = अतिथिः राजा अभिन्नानि =संश्लिष्टानि पुटानि = पत्राणि येषान्ते अभिन्नपुटाः । दूर्वाः = अनन्ताश्च यवानाम् = धान्यानाम् अंकुराः = अभिनवोद्भिदः च सक्षाणां = वटवृक्षाणां त्वचः = वल्कलानि च अभिन्नपुटाः= बालपल्लवाश्च उत्तराणि= प्रधानानि येषु ते तान् दुर्वायवांकुरप्लनत्वगभिन्न पुटोत्तरान् शतिषु =जातिषु वृद्धाः= ज्ञानवृद्धाः, वयोवृद्धाश्च ते तैः शातिवृद्धैः प्रयुक्तान् = विहितान् नितरां राजनं यत्र सा नीराजना। नीरस्य शान्त्युदकस्य अजनं = प्रक्षेपो वा यत्र सा नीराजना। नीराजनायाः = दीपप्रज्वलनादिरूपपञ्चप्रकारायाः विधिः = विधानमिति नीराजनाविधिः, बहुवचने तान् नीराजनाविधीन् भेजे = सिषेवे स्वीकृतवान् ।
समासः--दूर्वाश्च यवानामंकुराश्च प्लक्षाणां त्वचश्च अभिन्नपुटाश्च उत्तराणि येषु ते तान्