________________
रघुवंशे
समासः–सन्तश्च ते मंत्राः सन्मंत्रास्तैः पूतास्ताभिः सन्मंत्रपूताभिः। वृष्टेः सेकस्तस्मात् वृष्टिसेकात् ।
हिन्दी-अच्छे उत्तम मंत्रों से पवित्र हुए जलों से स्नान करते समय राजा अतिथि की कान्ति (तेज), उसी प्रकार बढ़ गया जैसे कि वर्षा के जल से बिजली की दीप्ति ( चमक ) बढ़ जाती है ॥ १६ ॥ .
स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु ।
यावतैषां समाप्येरन्यज्ञाः पर्याप्तदक्षिणाः ॥ १७ ॥ सोऽतिथिरभिषेकान्ते स्नातकेभ्यो गृहस्थेभ्यस्तावत्तावत्परिमाणं वसु धनं ददौ। यावता वसुनैषां स्नातकानां पर्याप्तदक्षिणाः समग्रदक्षिणा यज्ञाः समाप्येरन् । तावद्ददावित्यन्वयः ॥ __अन्वयः-सः अभिषेकान्ते स्नातकेभ्यः तावत् वसु ददौ, यावता एषां पर्याप्तदक्षिणाः यशाः समाप्येरन् ।
व्याख्या-सः=अतिथिः अभिषेकस्य = राजतिलकस्य अन्तः = अवसानं सम्पन्नता तस्मिन् स्नान्ति स्म इति स्नातकारतेभ्यः = गृहस्थेभ्यः तावत् = तावत्परिमाणं वसु= धनं ददौ = दत्तवान् यावता = यत्परिमाणेन एषां = स्नातकगृहस्थानां पर्याप्ता= यथेप्सिता दक्षिणा = देयद्रव्यं येषु ते पर्याप्तदक्षिणाः इज्यन्ते इति यज्ञाः = यागाः समाप्येरन् = सम्पन्ना भवेयुः। तावद्दक्षिणां दत्तवानित्यर्थः ।
समासः-अभिषेकस्य अन्तस्तस्मिन् अभिषेकान्ते । पर्याप्ता दक्षिणा येषु ते पर्याप्तदक्षिणाः ।
हिन्दी-अभिषेक ( राजतिलक ) के पश्चात् राजा अतिथि ने स्नातक, यज्ञादि करने वाले, गृहस्थब्राह्मणों को उतना धन दिया कि जितने धन से खूब भरपूर दक्षिणा देकर अपना यज्ञ सम्पन्न कर सके ॥ १७ ॥
ते प्रीतमनसस्तस्मै यामाशिषमुदैरयन् ।
सा तस्य कर्मनिवृत्तैर्दू रं पश्चात्कृता फलैः ॥ १८ ॥ प्रीतमनसस्ते स्नातकास्तस्मा अतिथये यामाशिषमुदैरयन्व्याहरन्साशीस्तस्यातिथेः कर्मनिवृत्तैः पूर्वपुण्यनिष्पन्नैः फलैः साम्राज्यादिभिर्दूरं दूरतः पश्चात्कृता। स्वफलदानस्य तदानीमनवकाशात्कालान्तरोद्वीक्षणं न चकारेत्यर्थः ॥
अन्वयः-प्रीतमनसः ते तस्मै यान् आशिषम् उदैरयन् सा तस्य कर्मनिवृत्तैः फलैः दूर पश्चात् कृता।
व्याख्या–प्रीतं = प्रमुदितं = प्रसन्नं मनः चित्तं येषां ते प्रीतमनसः ते = स्नातकाः ब्राह्मणाः तस्मै =राशे, अतिथये याम् आशिषम् = आशीर्वादम् उदैरयन् = व्याहरन् दत्तवन्त इत्यर्थः । सा= आशीः तस्यः = राशः अतिथेः कर्मभिः = पूर्वजन्मकृतैः पुण्यैः निर्वृत्तानि = निष्प