________________
सप्तदशः सर्गः
३७५
राजनीति विद्याओं को पढ़ाया। और फिर राजकुमरियों का हाथ पकड़ाया, अर्थात् विवाह करा दिया ॥ ३॥
जात्यस्तेनामिजातेन शूरः शौर्यवता कुशः।
अमन्यतैकमात्मानमनेकं वशिना वशी ॥ ४ ॥ जातौ भवो जात्यः कुलीनः शरो वशी कुशोऽभिजातेन कुलीनेन। 'अभिजातः कुलीनः स्यात्' इत्यमरः । शौर्यवता वशिना तेनातिथिना करणेन एकमात्मानम् । एको न भवतीत्यनेकस्तम् । अमन्यत । सर्वगुणसामग्रथादात्मजमात्मन एव रूपान्तरममंस्तेत्यर्थः ॥
अन्वयः--जात्यः शूरः वशी कुशः अभिजातेन शौर्यवता तेन एकम् आत्मानम् अनेकम् अमन्यत।
व्याख्या-जातौ भवः जात्यः = कलोनः शरयतीति शरः= विक्रान्तः "शूरी वीरश्च विक्रान्त" इत्यमरः । वशी= जितेन्द्रियः कशः=रामपुत्रः अभिजायते स्म इति अभिजातस्तेन अभिजातेन = कुलीनेन "अभिजातस्तु कलजे बुधे" इत्यमरः । शरस्य भावः शौर्यम् , शौयंमस्यास्तीति शौर्यवान् तेन शौर्यवता=पराक्रमवता वशिना= जितेन्द्रियेण तेन = अतिथिना एकम् = अद्वितीयम् आत्मानं = स्वम् न एकः अनेकस्तम् अनेकम् अमन्यत = अमंस्त । सर्वगुणपूर्णवेनात्मजमात्मन एव रूपान्तरममन्यतेत्यर्थः । ___हिन्दी-श्रेष्ठ कुलोत्पन्न शूरवीर और जितेन्द्रिय राजा कुशने कुलीन पराक्रमी और जितेन्द्रिय उस अतिथि के द्वारा एकाकी ( अकेला ) भी अपने को अनेक माना। अर्थात् अपने सारे गुण अतिथि में होने से उसे अपना ही दूसरा रूप माना ॥४॥
स कुलोपितमिन्द्रस्य साहायकमुपेयिवान् ।
जघान समरे दैत्यं दुर्ज तेन चावधि ॥ ५॥ स कुशः कुलोचितं कुलाभ्यस्तमिन्द्रस्य साहायकं सहकारित्वम् । 'योपधात्-' इत्यादिना वुञ् । उपेयिवान्प्राप्तः सन्समरे नामतोऽर्थतश्च दुर्जयं दैत्यं जवानावधीत् । तेन दैत्येनावधि हतश्च । 'लुङि च' इति हनो वधादेशः ॥
अन्वयः-सः कुलोचितम् इन्द्रस्य साहायकम् उपेयिवान् सन् समरे दुर्जयं दैत्यं जघान, तेन अवधि च।
व्याख्या-सः = कुशः कुलस्य = स्ववंशस्य उचितं - योग्यम् अभ्यस्तम् इति कुलोचितम् तत्, इन्द्रस्य = देवेन्द्रस्य साहायकं = सहकारित्वम् उपेयिवान् = प्राप्तः सन् समरे = युद्धे दुःखेन जेतुं = योग्यः दुर्जयस्तं दुर्जयं = नामतः, अर्थतश्च दुर्जयमित्यर्थः । दैत्यं = राक्षसं जघान = अवधीत् , तेन = दुर्जयेन दैत्येन अवधि = हतश्च ।
समासः- कुलस्य कुले वा उचितमिति तत् कुलोचितम् । दुःखेन जयः दुर्जयस्तं दुर्जयम् ।