________________
रघुवंशे
हिन्दी-अपने वंश की परम्परा के अनुसार कुश भी इन्द्र का सहायक होकर युद्ध में गया था। और युद्ध में बड़े बलशाली दुर्जय नाम के दैत्यको मारा था। और उस दैत्य ने कुश को भी मार दिया । अर्थात् दैत्य को मार कर स्वयं भी वीरगति पाई ।। ५ ॥
तं स्वसा नागराजस्य कुमुदस्य कुखद्वती।
भन्वगामुदानन्दं शशाङ्कमिव कौमुदी ॥ ६ ॥ कमुदस्य नाम नागराजस्य स्वसा कुमुदती कुशपत्नी कुमुदानन्दं शशाङ्क कौमुदी ज्योत्स्नेव । तं कुशमन्वगात् । कुशस्तु । कुः पृथ्वी तस्या मुत्प्रीतिः सैवानन्दो यस्येति कुमुदानन्दः। परानन्देन स्वयमानन्दतीत्यर्थः ॥
अन्वयः-कुमुदरय नागराजस्य स्वसा कुमुदती, कुमुदानन्दं शशांकम् कौमुदी इव तम् अन्वगात् ।
व्याख्या-कुमुदस्य = एतन्नामकस्य नागानां = सर्पाणां राजा= स्वामी नागराजस्तस्य नागराजस्य स्वसा= भगिनी कुमुदानि सन्त्यस्याः सा कुमुदती = एतन्नाम्नी को मोदन्ते इति कुमुदानि, कुमुदानां = कैरवाणां-सितपद्मानामित्यर्थः। आनन्दः = सुखं तं कुमुदानन्दं शशः अको यस्य स शशांकस्तं शशाङ्कम् = चन्द्रं कुमुदानामियम् कौमुदी = चन्द्रिका इव = यथा तं = कुशम् अन्वगात् = अन्वगच्छत् । कुमुदती कुशमरणानन्तरं सती अभूदित्यर्थः ।
समासः-नागानां राजा नागराजस्तस्य नागराजस्य कुमुददानाम् आनन्द स्तं कुमुदानन्दम् । कुः = पृथिवी तस्याः मुत् = प्रीतिः सा एव आनन्दो यस्य स तं कुमुदानन्दमिति कुशपक्षे । शशः अङ्को यस्य स तं शशाङ्कम् ।
हिन्दी-नागराज की बहन कुमुदती, पृथिवी को आनन्द देने वाले कुश के साथ, उसी प्रकार सती हो गई, जिस प्रकार सुफेद कमलों को खिलाने वाले शशांक (चन्द्र ) के अस्त हो जाने के साथ ही उसकी चान्दनी भी अस्त हो जाती है ॥ ६ ॥
तयोर्दिवस्पतेरासोदेकः सिंहासनार्धमाक् ।
द्वितीयापि सखी शच्याः पारिजातांशमागिनी ॥ ७ ॥ : तयोः कुशकुमुद्रत्योर्मध्ये एकः कुशो दिवस्पतेरिन्द्रस्य सिंहासनार्ध सिंहासनैकदेशः तद्भागासोत् । द्वितीया कुमुद्रती शच्या इन्द्राण्याः पारिजातांशस्य भागिनी ग्राहिणी । 'संपृच-' इत्यादिना भेजेषिंनुण्प्रत्ययः । सख्यासीत् । कस्कादित्वाद्दिवस्पतिः साधुः ॥
अन्धयः-तयोः एकः दिवरपतेः सिंहासनाप्रभाक् आसीत् , द्वितीया अपि शच्याः पारिजातांशभागिनी सखी आसीत् ।
व्याख्या स च सा च तो तयोः = कुशकुमुदत्योः मध्ये एकः = कुशः दिवः = स्वर्गस्य पतिः = स्वामीति दिवस्पतिः, तस्य दिवस्पतेः = इन्द्रस्य शापकत्वादलुक् । सिंहाकारमासनं सिंहा