________________
३७४
रघुवंशे व्याख्या-प्रशस्तः पिता अस्ति अस्यासौ पितृमान् प्रशंसाथै मतुब् प्रत्ययः सुशिक्षितः गुणीत्यर्थः । अनुपमा = अतुलनीया सर्वश्रेष्ठा द्युतिः = कान्तिः यस्य स अनुपमद्युतिः सः= अतिथिः, पितुः = जनकस्य = कुशरय, मातुः =जनन्याः= कुमुद्रत्याश्च वंशं = कुलम् , सुवति = लोकान् कर्मणि प्रेरयतीति सविता = सूर्यः उत्तरश्च दक्षिणश्चेति उत्तरदक्षिणौ उभौ= द्वौ मार्गों = पन्थानौ, उत्तरायणदक्षिणायनरूपौ इत्यर्थः। इव = यथा अपुनात् = पवित्रीकृतवान् । यथा सूर्यः उत्तरदिशं दक्षिणदिशं च पवित्रयति प्रकाशयति च, एवमतिथिरपि पितृकुलं मातृकुलं च पूतं प्रकाशितञ्चाकरोदीत्यर्थः ।
समासः-न विद्यते उपमा यस्याः सा अनुपमा, अनुपमा द्युतिः यस्य सः अनुपमद्युतिः । उत्तरश्च दक्षिणश्चेति उत्तरदक्षिणौ, तौ। - हिन्दी-जिस प्रकार परमतेजस्वी सूर्य, उत्तर और दक्षिण दोनो मार्गों ( छः मास उत्तर दिशा में और छः दक्षिण दिशा में उत्तरायण, दक्षिणायन होकर ) को पवित्र एवं प्रकाशित कर देता है, उसी प्रकार अच्छे उत्तम पिता वाले, अतुलप्रतापी सुशिक्षित होकर अतिथि ने भी माता एवं पिता के दोनों ( सूर्यवंश तथा नागवंश ) को पवित्र और प्रकाशित कर दिया ॥२॥
तमादौ कुलविद्यानामर्थमर्थविदां वरः ।
पश्चात्पार्थिवकन्यानां पाणिमग्राहथत्पिता ॥ ३ ॥ अर्थान्छब्दार्थान्दानसंग्रहादिक्रियाप्रयोजनानि च विदन्तीत्यर्थविदः। तेषां वरः श्रेष्ठः पिता कुशस्तमतिथिमादौ प्रथमं कुलविद्यानामान्वीक्षिकीत्रयोवार्तादण्डनीतीनामर्थमभिधेयमग्राहयदबोधयत् । पश्चात्पाथिवकन्यानां पाणिमग्राहयत्स्वीकारितवान् । उदवाहयदित्यर्थः। ग्रहय॑न्तस्य सर्वत्र द्विकर्मकत्वमस्तीत्युक्तं प्राक् ॥
अन्वयः- अर्थविदां वरः पिता तम् आदौ कुलविद्यानाम् अर्थम् अग्राहयत् । पश्चात् पार्थिवकन्यानां पाणिम् अग्राहयत् ।
व्याख्या अर्थान् = शब्दार्थान् विदन्ति जानन्ति ये ते अर्थविदः तेषाम् अथविंदां वरः = श्रेष्टः पातोति पिता = राजा कुशः तम् = अतिथिनामानं पुत्रम् आदौ = पूर्व कुलस्य = रघुवंशस्य विद्याः आन्वीक्षिकीत्रयीवार्ताद्याः, तासां कुलविद्यानाम् अर्थम् = अभिधेयम् अग्राहयत् = अपाठयत् , सर्वविद्यानां ज्ञानमकारयदित्यर्थः । पश्चात् = अनन्तरं पृथिव्याः ईश्वराः पार्थिवाः = भूपालारतुवां कन्याः = कुमार्यरतासां पार्थिवकन्यानां पाणिं = करम् अग्राहयत् = स्वीकारितवान् , विवा. हमकारयदित्यर्थः।
समासः-अर्थान् विदन्तीति अर्थविदस्तेषाम् अर्थविदाम् । कुलस्य विद्याः कुलविद्यास्तासां कुलविद्यानाम् । पार्थिवानां कन्यास्तासां पार्थिवकन्यानाम् ।
हिन्दी--शब्दों के अर्थों को और दान, संग्रह आदि क्रियाओं के प्रयोजन को जानने वालों में श्रेष्ठ राजा वुश ने अपने पुत्र अतिथिको पहले तो अपने कुल की आन्वीक्षिकी आदि ।