________________
सप्तदशः सर्गः नमो रामपदाम्भोजं रेणवो यत्र संततम् ।
कुर्वन्ति कुमुदप्रीतिमरण्यगृहमेधिनः ॥ अतिथिं नाम काकुत्स्थात्पुत्रं प्राप कुमुदती ।
पश्चिमाद्यामिनीयामा प्रसादमिव चेतना ॥ १ ॥ ___ कुमुदती काकुत्स्थात्कुशादतिथिं नाम पुत्रम्। चेतना बुद्धिः पश्चिमादन्तिमाद्यामिन्या रात्रर्यामात्प्रहरात् । 'द्वौ यामप्रहरी समौ' इत्यमरः। प्रसादं वैश पमित्र । प्राप। ब्राह्म मुहूर्ते सर्वेषां बुद्धिवैशद्यं भवतीति प्रसिद्धिः ॥
श्रीरामभद्राय नमः । अन्वयः--कुमुदती काकुत्स्थात् अतिथिं नाम पुत्रं, चेतना पश्चिमात् यामिनीयामात् प्रसा. दम् इव प्राप।
व्याख्या-कुमुदानि सन्त्यस्याः सा कुमुद्रती एतन्नाम्नी, कुमुदनागस्य भगिनी कं-सुखं कौति = सूचयतीति ककुद्, ककुदि = वृषस्कन्धे तिष्ठतीति ककुत्स्थः । ककुत्स्थस्य गोत्रापत्यं पुमान् काकुत्स्थस्तस्मात् काकुत्स्थात् = कुशात् , अनति = गच्छतीति अतिथिस्तम् अतिथिं नाम पुत्र = सुतम् “अतिथिः कुशपुत्रे स्यात्पुमानागन्तुकेऽपि च" इति विश्वमेदिन्यौ । चेतना = बुद्धिः पश्चात् भवं पश्चिमं तस्मात् पश्चिमात् = अन्त्यात् भयहेतुत्वात् निन्दिताः यामाः सन्ति यस्याः सा यामिनी रात्रिः तस्याः यामः प्रहरस्तस्मात् यामिनीयामात् “द्वौ यामप्रहरौ समौ" इत्यमरः । प्रसादं = वैशद्यम् इव = यथा प्राप = अवाप । ब्राह्म मुहूर्ते बुद्वेः नैनल्यं भवतीति प्रसिद्धिः ।
समासः--यामिन्याः यामः यामिनीयामस्तस्मात् यामिनीयामात् ।
हिन्दी-कुमुद्वती ने ककुत्स्थ वंशी कुश से अतिथि नाम के पुत्र को उसी प्रकार प्राप्त किया था, जिस प्रकार रात्रि के अन्तिम प्रहर ( ब्राह्म मुहूर्त ) में बुद्धि निर्मलता स्वच्छता को प्राप्त करती है । ब्राह्म मुहूर्त में बुद्धि स्वच्छ रहती है ॥ १ ॥
स पितुः पितृमान्वंशं मातुश्चानुपमद्युतिः ।
अपुनात्सवितेवोभौ मार्गावुत्तरदक्षिणौ ॥ २ ॥ ___ पितृमान् । प्रशंसाङ्के मतुप् । सुशिक्षित इत्यर्थः। अनुपमधुतिः सवितुश्चेदं विशेषणम् । सोऽतिथिः पितुः कुशस्य मातुः कुमुद्रत्याश्च वंशम् । सवितोत्तरदक्षिणावुभौ मार्गाविव । अपुनात्पवित्रीकृतवान् ॥
अन्वयः-पितृमान् अनुपमद्युतिः सः पितुः मातुः च वंशं सविता उत्तरदक्षिणी उभौ मार्गों इव अपुनात्।