________________
रघुवंशे हिन्दी-इस प्रकार कहकर कुमुद ने वह अलौकिक आभूषण कुश को अर्पित कर दिया। तब राजा ने कहा कि “हे कुमुद ! आप आदरणीय मेरे बन्धु (संबन्धी ) हैं।" यह कहने वाले राजा कुश को, कुमुद ने अपने कुटुम्बियों को बुलाकर कन्यारूपी कुलभूषण से विधिपूर्वक मिला दिया। विवाह करा दिया। अर्थात् कुमुद ने राजा का ही वह भूषण मात्र नहीं दिया, किन्तु अपना भूषण भी उन्हें दे दिया ।।८६॥
तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते
माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य । दिव्यस्तूर्वध्वनिरुदचरद् व्यनुवानो दिगन्तान्
गन्धोदन तदनु ववृषुः पुष्पमाश्चर्यमेघाः ॥८७॥ मनुजपतिना कुशेन साहचर्याय सहधर्माचरणायेत्यर्थः । माङ्गल्या मङ्गले साधुर्योर्णा मेषादिलोम । 'ऊर्णा मेषादिलोम्नि स्यात्' इत्यमरः । अत्र लक्षणया तन्निमितं सूत्रमुच्यते । तया वलयिनि वलयवति तस्याः कुमत्या हस्ते पाणावुच्छिखस्योदचिषः पावकस्य पुरोऽग्रे स्पृष्ट गृहीते सति दिगन्तान्व्यश्नुवानो व्याप्नुवन्दिव्यस्तूर्यध्वनिरुदचरदुत्थितः । तदन्वाश्चर्या अद्भुता मेघा गन्धेनोदग्रमुत्कटं पुष्पं पुष्पाणि । जात्यभिप्रायेणैकवचनम् । वषुः । आश्चर्यशब्दस्य 'रौद्रं तूयममी त्रिषु । चतुर्दश' इत्यमरवचनात्त्रिलिङ्गत्वम् ॥ . अन्वयः-मनुजपतिना साहचर्याय मांगल्योर्णावलयिनि तस्याः हस्ते उच्छिखस्य पावकस्य पुरः स्पृष्टे सति दिगन्तान् व्यश्नुवानः दिव्यः तूर्यध्वनिः उदचरत् । तदनु आश्चर्यमेघाः गन्धोदग्रं पुष्पं ववृषः।
व्याख्या-मनोः जाताः मनुजाः=मनुष्यास्तेषां पतिः =रक्षकस्तेन मनुजपतिना=राशा कुशेन सह साकं चरतीति सहचरस्तस्य भावः कर्म वा साहचर्य तस्मै साहचर्याय =सहधर्मादिचरणाय मंगले कल्याणे साध्वी मांगल्या या ऊर्णा=मेषादिलोम इति मांगल्योर्णा लक्षणया ऊर्णानिर्मितं सूत्रमित्यर्थः । मांगल्योर्णया वलयी= कङ्कणवान् तस्मिन् मांगल्योर्णावलायिनि= मांगलिकोर्णानिर्मितसूत्रधारिणि, तस्याः= कुमुद्वत्याः हस्ते करे उद्गताः शिखाः ज्वालाः यस्मिन् स तस्य उच्छिखस्य पावकस्य =अग्नेः पुरः=अग्रे स्पृष्टे गृहीते सति दिशां = काष्ठानाम् अन्ताः=अवसानानि तान् दिगन्तान् = दिगन्तरालानोत्यर्थः व्यश्नुवानः=व्याप्नुवन् दिवि भवः दिव्यः स्वर्गायः तूर्याणां मुरजादीनां ध्वनिः शब्दः इति तूर्यध्वनिः उदचरत् = उत्थितः । तस्य = तूर्यध्वनेः अनु= पश्चात् तदनु आश्चर्याः=अद्भुताः च ते मेघाः = घनाः इति आश्चर्यमेघाः गन्धेन = सुरभिणा उदग्रम् = उत्कटमिति गन्धोदग्रं पुष्पं जात्यभिप्रायेणैकवचनं, तेन सुरभीणि पुष्पाणि, ववृषुः = वर्षन्तिस्म ।
समासः–मनोः जाताः मनुजास्तेषां पतिस्तेन मनुजपतिना । मांगल्या चासौ ऊर्णा, पांगल्यार्णा, तया वलयी, तस्मिन् मांगल्योर्णावलयिनि । उद्गताः शिखाः यस्मिन् स तस्य