________________
षोडशः सर्गः
उच्छिखस्य । दिशाम् अन्तास्तान् दिगन्तान् । तूर्याणां धनिः तूर्यध्वनिः। आश्चर्याश्च ते मेघाः आश्चर्यमेघाः । गन्धेन उदग्रमिति गन्धोदग्रं तत् । तस्य अनु तदनु ।
हिन्दी-मनुष्यों के राजा कुश ने जब अपनी सहधर्मिणी ( पत्नी ) बनाने के लिये प्रज्वलित अग्नि के सामने, मांगलिक ऊनी कंगन बन्धा हुआ उस कुमुद्रती का हाथ पकड़ा, उसी समय स्वर्गीय मुरजादि बाजों की ध्वनि, सारी दिशाओं को व्याप्त करती हुई उठीं। अर्थात् दिशा, गूंज उठीं। और इसके बाद विचित्र प्रकार के बादलों ने खूब सुगन्धित पुष्पों की वर्षा की ॥ ८७ ॥
इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं
लब्ध्वा बन्धुं तमपि च कुशः पञ्चमं तक्षकस्य । एकः शङ्कां पितृवधरिपोरत्यजद्वैनतेया
च्छान्तव्यालामवनिमपरः पौरकान्तः शशास ॥ ८८ ॥ इत्थं नागाः कुमुदः। त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । 'तद्धितार्थ-' इत्यादिना तत्पुरुषः। 'अदन्तद्विगुत्वेऽपि पात्राद्यदन्तत्वानपुंसकत्वम्' । 'पात्राद्यदन्तैरनेकार्थो द्विगुलश्यानुसारतः' इत्यमरः। तस्य गुरू रामः। तस्यौरसं धर्मपत्नीजं पुत्रम् । 'औरसो धर्मपत्नीजः' इति याज्ञवल्क्यः। मैथिलेयं कुशं बन्धुं लब्ध्वा कुशोऽपि च तक्षकस्य पञ्चमं पुत्रं तं कुमुदं बन्धुं लब्ध्वा एकस्तयोरन्यतरः कुमुदः पितृवधेन रिपोवैनतेयाद्रुडात् । गुरुणा वैष्णवांशेन कुशेन त्याजितक्रौर्यादिति भावः। शङ्कां भयमत्यजत् । अपरः कुशः शान्तव्याला कुमुदाशया वीतसर्पभयामवनिमत एव पौरकान्तः पौरप्रियः सन्छशास ॥ इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया
समेते कहाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
कुमुद्वतोपरिणयो नाम षोडशः सर्गः ॥ अन्वयः-इत्थं नागः त्रिभुवनगुरोः औरसं मैथिलेयं बन्धुं लब्ध्वा कुशः अपि च तक्षकस्य पञ्चमं पुत्रं तं “बन्धुं लब्ध्वा" एकः पितृवधरिपोः वैनतेयात् शंकाम् अत्यजत् , अपरः शान्तव्यालाम् अवनिम् पौरकान्तः सन् शशास ।
व्याख्या-इत्थं = पूर्वप्रकारेण नागः = कुमुदः त्रयाणां भुवनानां समाहारः त्रिभुवनं, त्रिभुवनस्य गुरुः = रामचन्द्रः, इति त्रिभुवनगुरुः, तस्य त्रिभुवनगुरोः, उरसा निर्मितः औरसः= धर्मपत्नीजस्तम् , औरसं पुत्रम् । मैथिल्याः पुत्रः मैथिलेयस्तं मैथिलेयं कुशं = रामपुत्रं बन्धुं = संबन्धिनं लब्ध्वा प्राप्य, कुशोऽपि च तक्षतीति तक्षकस्तस्य तक्षकस्य = नागस्य पञ्चमं पुत्रं तं= कुमुदं बन्धुं लब्ध्वा प्राप्य, एकः= कुमुदः पितुः = जनकस्य वधः =मारणं तेन रिपुः = शत्रुः तस्मात् पितृवधरिपोः विनतायाः अपत्यं पुमान्, तस्मात् वैनतेयात् = गरुडात् शंकां =