________________
षोडशः सर्गः
३६३
व्याख्या-हे देव हे राजन् ! प्रकृष्टो यत्नः प्रयत्नः = प्रयासः, चेष्टा कृतः= अनुष्ठितः पयसि =जले मग्नं = लीनं, बुडितमित्यर्थः ते तव आभरणेषु = भूषणेषु उत्तम =श्रेष्ठं न च = नहि लब्धं = प्राप्तम्। किन्तु तत्=आभरणम् ह्रदस्य = गभीरजलविवरस्य अन्तः = मध्ये इति अन्तर्हदं, तत्र वसति तच्छीलस्तेन अन्तर्हदवासिना कुमुदेन -- एतन्नामकेन नागेन = सर्पण लोलस्य भावः कर्म वा लौल्यं तस्मात् लौल्यात् = लोभात् उपात्तं गृहीतं नूनमिति वितर्के ।।
समासः-आभरणेषु उत्तममिति आभरणोत्तमम् । हृदस्य अन्तरिति अन्तर्हदं तत्र वासी तेन अन्तर्हदवासिना।
हिन्दी-हे महाराज ! बहुत परिश्रम किया, “किन्तु" जल में गिरा ( डूबा ) हुआ आप का वह सर्वश्रेष्ठ आभरण नहीं मिला। किन्तु "हम ऐसा सोचते हैं कि-" जल के गहरे विवर में रहने वाले कुमुद नामक नाग ( सांप ) ने उस आभरण को लोभ से ले लिया है ॥ ७६ ॥
ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः ।
गारुत्मतं तीरगतस्तरस्वी भुजंगनाशाय समाददेऽस्त्रम् ॥ ७७ ॥ ततो धनुर्धरः कोपविलोहिताक्षस्तरस्वी बलवान्स कुशस्तीरगतः सन्धनुराततज्यमधिज्यं कृत्वा भुजंगस्य कुमुदस्य नाशाय गारुत्मतं गरुत्मद्देवताकमस्त्रं समाददे ।।
अन्वयः-ततः धनुर्धरः कोपविलोहिताक्षः तरस्वी सः तोरगतः 'सन्' धनुः आततज्यं कृत्वा भुजंगनाशाय गारुत्मतम् अस्त्रं समाददे ।
व्याख्या-ततः=जालिकवचनश्रवणानन्तरम् धरतीति धरः, धनुषः धरः धनुर्धरः =चापधारो कोपेन = क्रोधेन विशेषेण लोहिते रक्ते अक्षिणी = नेत्रे यस्य स कोपविलोहिताक्षः तरः = वेगः अस्यास्तीति तरस्वी = शूरः “तरस्वी शूरवेगयोः” इति मेदिनी। सः= कुशः तीरं = तटं गतः प्राप्तः इति तीरगतः सन् धनुः=चापम् आतता = विस्तारिता, आरोपिता ज्या=मौर्वी यस्मिन् तत् आततेज्यं कृत्वा = विधाय भुजाभ्यां गच्छतीति भुजंगस्तस्य = भुजंगस्य = कुमुदनागस्य नाशः =मारणं तस्मै भुजंगनाशाय गरुतः= पक्षाः सन्त्यस्यासौ गरुत्मान् = गरुडः देवतास्य तत् गारुत्मतम् = गारुडम् अस्त्रं = शस्त्रं समाददे = गृहीतवान् ।
समासः-आतता ज्या यस्मिन् तत् आततज्यं तत् । कोपेन विलोहिते अक्षिणी यस्य स कोपविलोहिताक्षः । तीरं गतस्तीरगतः । भुजंगस्य नाशस्तस्मै भुजंगनाशाय ।
हिन्दी-गोताखोरों के वचन सुनकर, धनुर्धारी, क्रोध के कारण लाल-लाल आँख वाले बलवान् राजा कुश ने तट पर खड़े होकर और धनुष पर डोरो चढ़ाकर कुमुद नामक नाग को मारने के लिये, गरुड़ देवता वाले बाण को ले लिया अर्थात् धनुष पर बाण चढ़ा लिया ॥ ७७ ।।
तस्मिन्हदः संहितमात्र एव क्षोभात्समाविद्धतरङ्गहस्तः । रोधांसि निघ्ननवपातमग्नः करीव वन्यः परुषं ररास ॥ ७८ ॥