________________
३६४
रघुवंशे
तस्मिन्नने संहितमात्रे सत्येव हृदः क्षोभाद्धेतोः समाविद्धाः संघटितास्तरङ्गा एव हस्ता यस्य स रोधांसि निघ्नन्पातयन् । अवपाते गजग्रहणगर्ते मग्नः पतितः । 'अवपातस्तु हस्त्यर्थे गर्तश्छन्नस्तृणादिना' इति यादवः । वन्यः करीव परुषं घोरं ररास दध्वान ।।
अन्वयः-तस्मिन् संहितमात्रे एव ह्रदः क्षोभात् समाविद्धतरंगहस्तः रोधांसि निघ्नन् अवपातमग्नः वन्यः करी इव परुषं ररास ।
व्याख्या-तस्मिन् = गारुत्मतास्त्रे संहितम् एवेति संहितमात्रं तस्मिन् संहितमात्रे = सज्जीकृते सत्येव ह्रदः= अगाधजलः क्षोभात् = सञ्चलनात् कारणात् समाविद्धाः =संताडिताः तरंगाः=वीचयः एव हस्ताः कराः यस्य स समाविद्धतरंगहस्तः रोधांसि =तटानि निघ्नन् = विनाशयन् , पातयन्नित्यर्थः । अवपाते हस्तिग्रहणार्थ तृणादिच्छन्नगते मग्नः पतित इति अवपातमग्नः । “अवपातस्तु हस्त्यर्थे गर्तच्छन्नस्तृणादिना" इति यादवः । वन्यः = आरण्यकः करी=गजः इव = यथा परुषं =भयंकरम् ररास = जगर्ज।
समासः-संहितम् एव संहितमात्रम् तस्मिन् संहितमात्रे। समाविद्धाः तरंगा एव हस्ताः यस्य स समाविद्धतरंगहस्तः । अवपाते मग्नः अवपातमग्नः ।
हिन्दी-उस अस्त्र के धनुष पर चढ़ाते ही वह अगाध जल, खलबलाने के कारण अपने तरंगरूपी हाथ जोड़े हुए, तटों ( किनारों ) को गिराता हुआ इस प्रकार भयंकर गर्जने लगा, जैसे कि गड्ढे में गिरा हुआ जंगली हाथी चिग्घाड़ता है ।। ७८ ।।
तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज ।
लक्ष्म्येव साधं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजंगराजः ॥ ७९ ॥ मथ्यमानात्समुद्रादिव । उद्वृत्तनकाक्षुभितग्राहात्तस्माद्भेदात् । लक्ष्म्या सार्थ सुरराजस्येन्द्रस्य वृक्षः पारिजात इव । कन्यां पुरस्कृत्य भुजंगराजः कुमुदः सहसोन्ममज्ज ॥
अन्वयः-मथ्यमानात् समुद्रात् इव उवृत्तनक्रात् तस्मात् लक्ष्म्या साधं सुरराजवृक्षः इव कन्यां पुरस्कृत्य भुजंगराजः सहसा उन्ममज्ज।
व्याख्या-मथ्यतेऽसौ मथ्यमानः तस्मात् मथ्यमानात् = आलोड्यमानात् समुद्रात् = सागरात् इव = यथा उदृत्ताः =क्षुभिताः नक्राः=ग्राहाः यस्य स तस्मात् उवृत्तनक्रात् । तस्मात् = ह्रदात् लक्ष्म्या=श्रिया साध = साकं सुराणां = देवानां राजा= स्वामी, इति सुरराजः = इन्द्रः तस्य वृक्षः = पारिजातः इति सुरराजवृक्षः इव = यथा कन्यां = कुमारी निजभगिनीमित्यर्थः पुरः = अग्रे कृत्वा इति पुरस्कृत्य भुजंगानां =सर्पाणां राजा इति भुजंगराजः = कुमुदनामा पन्नगः सहसा= झटिति उन्ममज्ज =जलात् बहिरागतः इत्यर्थः ।
समासः-उद्वत्ताः नकाः यस्मिन् स तस्मात् उद्वत्तनकात् । सुराणां राजा सुरराजः, सुरराजस्य वृक्षः सुरराजवृक्षः । भुजंगानां राजा भुजंगराजः।