________________
रघुवंशे
लोभ के कारण, क्योंकि विद्वान कुश, पुष्प और आभूषण को एक समान समझता था। अर्थात् दोनों को वह निर्माल्यवत् समझता था। क्योंकि वह लोभी नहीं था ॥ ७४ ॥
ततः समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान् ।
वन्ध्यश्रमास्ते सरयूं विगाह्य तमूचुरग्लानमुखप्रसादाः ॥ ७५ ॥ ततः नद्यां स्नान्ति कौशलेनेति नदीष्णास्तान् । 'सुपि' इति योगविभागात्कप्रत्ययः । 'निनदीभ्यां स्नातेः कौशले' इति षत्वम् । सर्वानानायिनो जालिकांस्तस्याभरणस्य विचयेऽन्वेषणे निमित्त आशु समाज्ञापयदादिदेश । त आनायिनः सरयूं विगाह्य विलोड्य वन्ध्यश्रमा बिफलप्रयासास्तथापि तद्गतिं ज्ञात्वाऽम्लानमुखप्रसादाः सश्रीकमुखाः सन्तस्तं कुशमूचुः ॥
अन्वयः-ततः नदीष्णान् सर्वान् आनायिनः तद्वि चये आशु समाशापयत् , ते सरयूं विगाह्य वन्ध्यश्रमाः ( अपि ) अम्लानमुखप्रसादाः तम् ऊचुः ।
व्याख्या-ततः = अनन्तरम् नद्यां = तरंगिण्यां स्नान्ति = अवगाहन्ते कौशलेनेति ते तान् नदीष्णान् सर्वान् = अखिलान् नयनं नायः आसमन्तात् नायोऽनेनेति आनायः, आनयन्ति मत्स्यान् अनेनेति वा आनायः । आनायः अस्ति येषां ते आनायिनः तान् जालिकान् तस्य = आभरणस्य विचयः = अन्वेषणं तस्मिन् तद्विचये, आभरणस्यान्वेषणे, इत्यर्थः। आशु = शीघ्र समाज्ञापयत् = आदिदेश । ते= सर्वे आनायिनः सरयूं = नदी विगाह्य =आलोड्य, तत्रान्विष्येत्यर्थः । वन्ध्यः = विफलः श्रमः= प्रयासः येषां ते वन्ध्यश्रमाः तथापि तत्प्राप्तिस्थानं ज्ञात्वा अम्लानः=श्रीयुक्तः मुखस्य आननस्य प्रसादः स्वच्छता, शान्तिर्येषां ते अम्लानमुखप्रसादाः सन्तः तं राजानं कुशम् ऊचुः = उक्तवन्तः ।
समासः-वन्ध्यः श्रमः येषां ते वन्ध्यश्रमाः । तस्य विचयस्तस्मिन् तद्विचये । अम्लानं यत् मुखं तस्य प्रसादः येषां ते अम्लानमुखप्रसादाः ।
हिन्दो—इसके बाद बड़े कुशल गोताखोर सारे मल्लाहों को उस आभूषण के खोज डालने की तुरन्त आशा दी। और वे सरयू नदी में खूब गोता लगाकर ( अच्छी प्रकार ढूँढ़कर ) बेकार परिश्रम वाले होकर भी उस आभूषण के स्थान को जान कर ने प्रसन्न मुख होकर राजा कुश से बोले ॥ ७५ ॥
कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्यामरणोत्तमं ते ।
नागेन लौल्यात्कुमुदेन नूनमुपात्तमन्तहदवासिना तत् ॥ ७६ ॥ हे देव, प्रयत्नः कृतः । पयसि मग्नं त आभरणोत्तमं न च लब्धम् । किंतु तदाभरणमन्तर्हदबासिना कुमुदेन कुमुदाख्येन नागेन पन्नगेन लौल्याल्लोभादुपात्तं गृहीतम् । नूनमिति वितकें ॥
अन्वयः-हे देव ! प्रयत्नः कृतः पयसि मग्नं ते आभरणोत्तमं न च लब्धम्, किन्तु, तत् अन्तर्हदवासिना कुमुदेन नागेन लौल्यात् उपात्तं नूनम् ।