________________
षोडशः सर्गः
प्रसाधनमित्यर्थः। “आकल्पवेषो नेपथ्यं प्रतिकर्म प्रसाधनम्" इत्यमरः । मनोशः = मनोरमः एव विद्यते। सुन्दराकृतीनां विकारोऽपि शोभां तनोति इति भावः ।
समासः-उद्गतबन्धाः केशाः यस्मिन् सः उद्बन्धकेशः । च्युता पत्राकारा लेखा यस्मिन् स च्युतपत्रलेखः । मुक्ताफलानां पत्रवेष्टाः मुक्ताफलपत्रवेष्टाः, विश्लेषिणः मुक्ताफलपत्रवेष्टा यस्मिन् स विश्लेषिमुक्ताफलपत्रवेष्टः। प्रमदानां मुखानि तेषां प्रमदामुखानाम् । अम्भसि विहारः अम्भोविहारस्तेन आकुलितः अम्भोविहाराकुलितः ।
हिन्दी-जल में विहार ( खेल-कूद ) करने के कारण यद्यपि इन सुन्दरियों के केशों का बंधन खुल गया है, मुखों की चित्रकारी मिट सी गई है ( खराब हो गई ) और मोतियों के कर्णभूषण भी कानों से निकल गए हैं फिर भी इनका वेष मनोहर ही है। ( ठीक ही है सुन्दर आकृति वालों का विकार भी शोभा को बढ़ाता है) ॥ ६७ ॥
स नौविमानादवतीर्य रेमे विलोलहारः सह तामिरप्सु ।
स्कन्धावलग्नोतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः ॥ ६८ ॥ स कुशो नौविमानमिव नौविमानम् । उपमितसमासः । तस्मादवतीर्य विलोलहारः संस्ताभिः स्त्रीभिः सह करेणुभिः सह स्कन्धावलग्नोद्धृतपद्मिन्युत्पाटितनलिनी यस्य स तथोक्तः सन् । 'नवृतश्च' इति कप्प्रत्ययः । वन्यो द्विपेन्द्र इव । अप्सु रेमे ॥
अन्वयः-सः नौविमानात् अवतीर्य विलोलहारः सन् ताभिः सह करेणुभिः सह स्कन्धावलग्नोद्धृतपद्मिनीकः वन्यः द्विपेन्द्रः इव अप्सु रेमे।
व्याख्या-सः =राजा कुशः नौः = तरणिः, नौका विमानं = व्योमयानमिव इति नौविमानम् तस्मात् नौविमानात् अवतीर्य = जलेऽवतरणं कृत्वा विलोलः = चञ्चलः हारः=मुक्तावली यस्य स विलोलहारः सन् “हारो मुक्तावली" इत्यमरः। ताभिः =अन्तःपुरसुन्दरीभिः सह % साकं के = जले रेणुरासां तास्ताभिःकरेणुभिः =हस्तिनीभिः सह स्कन्धे =अंसे अवलग्ना=संलग्नाउद्धृता = उत्पाटिता पद्मिनी कमलिनी यस्य सः स्कन्धावलग्नोद्धृतपद्मिनीकः वने भवः वन्यः= आरण्यकः द्वाभ्यां = मुखशुण्डाभ्यां पिबन्तीति द्विपास्तेषाम् इन्द्रः = स्वामी द्विपेन्द्रः = गजेन्द्रः इव = यथा अप्सु जलेषु रेमेचिक्रीड जलविहारं कृतवानित्यर्थः ।
समासः-नौः विमानमिवेति नौविमानं तस्मात् नौविमानात् । विलोलः हारः यस्य स विलोलहारः। द्विपानामिन्द्रः द्विपेन्द्रः। स्कन्धे अवलग्ना, उद्धृता पद्मिनी यस्य स स्कन्धावलग्नोद्धृतपद्मिनोकः।
हिन्दी-"इस प्रकार किराती से कह कर" लटकते चञ्चलहार वाले राजा कुश, नावरूपी विमान से उतर कर ( जल में आकर ) उन रानियों के साथ वैसे ही जलक्रीड़ा करने लगे, जैसे उखाड़ी हुई कमलनियों को कन्धे पर लटका कर वन का हाथी हथिनियों के साथ जलक्रीड़ा करता है ॥ ६८॥