________________
रघुवंशे
दोत्सखीजनं प्रति करैरुत्पीडिता उत्सारिता वारिधारा याभिस्ताः स्वयमपि पुनस्तथैव सखीभिर्वदनेषु सिक्ता एतास्तरुण्यो वक्रेतराग्रैजलसेकादृज्वग्रैरलकैः करणैश्चूर्णैः कुङ्कुमादिभिररुणान्वारिलवानुदकबिन्दून्वमन्ति वर्षन्ति ॥ __अन्वयः-दर्पात् करोत्पीडितवारिधाराः, सखीभिः वदनेषु सिक्ताः एताः तरुण्यः, वक्रेतराप्रैः अलकैः चूर्णारुणान् वारिलवान् वमन्ति ।
व्याख्या-दर्पात् = अहंकारात् सखीजनं प्रति करैः = हस्तैः उत्पीडिता उत्क्षिप्ता वारिणः=जलस्य धारा याभिस्ताः करोत्पीडितवारिधाराः पुनस्तथैव सखीभिः = वयस्याभिः "आली सखी वयस्या च" इत्यमरः। वदनेषु = मुखेषु सिक्ताः = अभ्युत्क्षिप्ताः, जलेना कृता इत्यर्थः, एताः = जलक्रीडारताः तरुण्यः युवत्यः वक्रेभ्यः = कुटिलेभ्यः इतराणि = सरलानि अग्राणि = अग्रभागाः येषां ते तैः वक्रेतरागः जलसेकेन ऋजुभिरित्यर्थः। अलकैः = चूर्णकुन्तलैः चूर्णैः = कुङ्कुमादिभिः अरुणाः = रक्तास्तान् चूर्णारुणान् वारिणः = जलस्य लवाः = बिन्दवः तान् वारिलवान् , रक्तजलबिन्दूनित्यर्थः। वमन्ति = वर्षन्ति ।
समासः-करैः उत्पीडिता वारिधाराः याभिस्ताः इति करोत्पीडितवारिधाराः। वक्रेभ्यः इतराणि वक्रेतराणि वक्रेतराणि अग्राणि येषां ते तैः वक्रेतराप्रैः। चूणेः अरुणाः तान् चूर्णारुणान् । वारिणः लवास्तान् वारिलवान् ।
हिन्दी--अहंकार से "अपनी सखियों पर" हाथों से जल की धार उछालने वाली, “और फिर" सखियों द्वारा मुखों पर भिगोई गयीं ये युवतियाँ, ( अर्थात् रानियों ) पानी से भींगने के कारण सीधे मुँह पर लटक रहे केशों से रोली सिन्दूर से लाल रंग की जलबून्दे गिरा रही हैं ॥ ६६ ॥
उद्वन्धकेशश्च्युतपत्रलेखो विश्लेषिमुक्ताफलपत्रवेष्टः ।
मनोज्ञ एव प्रमदामुखानामम्मोविहाराकुलितोऽपि वेषः ॥ ६७ ॥ उद्बन्धा उद्भ्रष्टाः केशा यस्मिन्सः । च्युतपत्रलेखः क्षतपत्त्ररचनः। विश्लेषिणो विस्रंसिनो मुक्ताफलपत्रवेष्टा मुक्तामयताटङ्का यस्मिन्सः। एवमम्भोविहाराकुलितोऽपि प्रमदामुखानां वेषो नेपथ्यं मनोश एव । 'रम्याणां विकृतिरपि श्रियं तनोति' इति भावः ॥
अन्वयः-उद्बन्धकेशः च्युतपत्रलेखः विश्लेषितमुक्ताफलपत्रवेष्टः अम्भोविहाराकुलितः अपि प्रमदामुखानां वेषः मनोशः एव ।
व्याख्या-उद्बन्धाः= उद्भ्रष्टाः केशाः =कचाः यस्मिन् स उद्बन्धकेशः, पत्राकारा लेखा पत्रलेखा = कपोलस्तनादिषु केसरादिनिर्मिततिलकविशेषः इत्यर्थः । च्युता= नष्टा पत्रलेखा यस्मिन् स च्युतपत्रलेखः। विश्लेषिणः = विस्रंसनशीलाः, पृथग्भूता इत्यर्थः। मुक्ताफलानां = मौक्तिकानां पत्रवेष्टाः =ताटंकाः, कर्णभूषणविशेषा इत्यर्थः। यस्मिन् स विश्लेषिमुक्ताफलपत्रवेष्टः, अम्भसि = जले विहारः = क्रीडा तेन आकुलितः = विक्षुब्धः, प्रक्षालित इत्यर्थः। इति अम्भोविहाराकुलितः अपि प्रमदानां = मानिनीनां मुखानि = आननानि तेषां प्रमदामुखानां वेषः = नेपथ्य,