________________
३५८
रघुवंशे
ततो नृपेणानुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयं विरेजुः । प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किमुतोन्मयूखम् ॥ ६९ ॥
ततो भ्राजिष्णुना प्रकाशनशीलेन । 'भुवश्च' इति चकारादिष्णुच् । नृपेणानुगताः संगतास्ताः 'स्त्रियः सातिशयं यथा तथा विरेजुः । प्रागेव इन्द्रनीलयोगात्पूर्वमेव । केवला अपीत्यर्थः । मुक्ता यो नयनाभिरामाः । उन्मयूखमिन्द्रनीलं प्राप्य किमुत । अभिरामा इति किमु वक्तव्यमित्यर्थः ॥
1
अन्वयः -- ततः भ्राजिष्णुना नृपेण अनुगताः ताः स्त्रियः सातिशयं विरेजुः प्राक् एव मुक्ताः नयनाभिरामाः उन्मुयूखम् इन्द्रनीलं प्राप्य किमुत ।
व्याख्या——ततः = अनन्तरम् भ्राजते तच्छीलः भ्राजिष्णुस्तेन भ्राजिष्णुना = दीप्तिमता नृपेण = र = राज्ञा कुशेन अनुगच्छन्तोति अनुगताः = संगताः, मिलिता इत्यर्थः । ताः = पूर्वोक्ताः स्त्रियः = तरुण्यः अतिशयेन सहितं सातिशयं = साधिक्यं यथा स्यात्तथा विरेजुः = शुशुभिरे, प्राक् प्रथमम् एव = इन्द्रनीलमणिसंयोगात् पूर्वमेवेत्यर्थः । मुक्ताः = मौक्तिकमणः मनो यासु ताः अभिरामाः नयनयोः = नेत्रयोः अभिरामाः = मनोहराः इति नयनाभिरामाः, उत् = ऊर्ध्वं मयूखाः = किरणा: यस्य स उन्मयूखस्तम् उन्मयूखम् = प्रकाशमानं दीप्तिमन्तमित्यर्थः । इन्द्रस्य नील: = मणिस्तम् इन्द्रनीलं प्राप्य = = संगत्य किमुत नयनाभिरामाः । मुक्तानां स्वत एव मनोहरता वर्तते, नीलमणिसंयोगे किमु वक्तव्यमित्यर्थः ।
समासः - अतिशयेन सहितं सातिशयम् । नयनयोः अभिरामाः नयनाभिरामाः । उद्गताः मयूखाः यस्मिन् स तम् उन्मयूखम् । इन्द्रस्य नीलस्तम् इन्द्रनीलम् ।
हिन्दी - इसके पश्चात् कान्तिमान् सुन्दर उस राजा कुश के साथ मिलकर जलविहार करती हुई वे रानियाँ पहले से भी अधिक सुशोभित हुई। क्योंकि मोती अकेला ही सुन्दर होता है, और फिर यदि चमचमाती इन्द्रनीलमणि ( नीलम ) साथ गूँथा हो तो क्या कहना है । अर्थात् नीलम् के साथ गूँथने से मोती बहुत ही सुन्दर लगता है । वैसे ही कुश के साथ रानियाँ भी अधिक सुन्दर लगने लगीं ॥ ६९ ॥
वर्णोदकैः काञ्चनशृङ्गमुक्तस्तमायताक्ष्यः प्रणयादसिञ्चन् ।
तथागतः सोऽतितरां बभासे सधातुनिष्यन्द इवाद्रिराजः ॥ ७० ॥
तं कुशमायताक्ष्यः काञ्चनस्य शृङ्गैर्मुक्तानि तैर्वर्णोदकैः कुङ्कुमादिवर्णद्रव्यसहितोदकैः प्रणयास्नेहादसिञ्चन् । तथागतस्तथा स्थितः । वर्णोदकसिक्त इत्यर्थः । स कुशः सधातुनिष्यन्दो गैरिकद्रव्ययुक्तोऽद्रिराज इव । अतितरां बभासेऽत्यर्थं चकासे ॥
श्अन्वयः—तम् आयताक्ष्यः ताः काञ्चनशृंगमुक्तैः वर्णोदकैः प्रणयात् असिञ्चन् तथागतः सः सधातुनिष्यन्दः अद्रिराजः इव अतितराम् बभासे ।
व्याख्या - तं = राजानं कुशम् आयतानि = दीर्घाणि, विशालानीत्यर्थः अक्षीणि= लोच