________________
षोडशः सर्गः
३४७ तस्मिन्समये ग्रीष्मे विगाढे कठिने सति जनस्य द्वौ सविशेषं सातिशयं यथा तथा कान्तौ बभूवतुः । कौ द्वौ। तापापनोदे क्षमा योग्या पादयोरङ्घयोः पादानां रश्मीनां च सेवा ययोस्तावुदयस्थावभ्युदयस्थौ स च नृपतिः शशो च ॥
अन्वयः-तस्मिन् समये विगाढे सति जनस्य द्वौ सविशेषकान्तौ बभूवतुः तापापनोदक्षमपादसेवौ उदयस्थौ स च नृपतिः शशी च ।
व्याख्या-तस्मिन् समये = निदावर्ती विगाढे = कठोरे, सोढुमशक्ये सतीत्यर्थः । जनस्य = लोकस्य द्वौ विशेषेण सहितं सविशेष - सातिशयं यथा तथा कान्तौ = मनोहरी, प्रियौ, इत्यर्थः बभूवतुः =जाती, कौ तौ द्वौ, इत्याह-तापस्य = सन्तापस्य अपनोदः = दूरीकरणं तस्मिन् क्षमा = समर्था पादयोः=चरणयोः ( शशिपक्षे) पादानां = किरणानां सेवा =सेवनं ययोस्तौ तापापनोदक्षमपादसेवौ उदये = अभ्युदये तिष्ठतः इति उदयस्थौ सः= कुशश्च नृपतिः = राजा शशी= चन्द्रश्च । राजा धनदानेन चन्द्रः शीतलताप्रदानेन च द्वौ अपि लोकस्य प्रियौ आस्तामित्यर्थः ।
समासः–सविशेष कान्तौ, इति सविशेषकान्तौ। तापस्य अपनोदः तापापनोदः, तापापनोदे क्षमा पादयोः, पादानां च सेवा ययोः तौ तापापनोदक्षमपादसेवौ।
हिन्दी-उस कठोर गरमी के समय में दो ही प्रजा के विशेष रूप से प्रिय हुए, एक तो सेवा से प्रसन्न होकर दारिद्रय आदि सन्ताप को दूर करने में समर्थ राजा कुश, और दूसरे शोतल किरणों से गर्मी के ताप को दूर करने वाले चन्द्र ।। ५३ ॥
अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वा: । विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥ ५४ ॥ अथोर्मिषु लोलाः सतृष्णा उन्मदा राजहंसा यस्मिरतस्मिन् । 'लोलश्चलसतृष्णयोः' इत्यमरः । रोधोलतापुष्पाणां वहे प्रापके। पचाद्यच् । ग्रीष्मेषु सुखे सुखकरे सरवा अम्भसि पयसि तस्य कुशस्य वनितासखस्य । वनिताभिः सहेत्यर्थः । विहर्तुमिच्छा बभूव ॥
अन्वयः-अथ उमिलोलोन्मदराजहंसे रोधोलतापुष्पवहे ग्रीष्मसुखे सरय्वाः अम्भसि तस्य वनितासखस्य विहर्तुम् इच्छा बभूव ।
व्याख्या-अथ = अनन्तरं कदाचित् उद्गतः मदः = हर्षः येषां ते उन्मदाः, ऊर्मिषु = जलतरंगेषु लोलाः =सतृष्णाः उन्मदाः राजहंसाः कलहंसाः यस्मिन् तत् , तस्मिन् उर्मिलोलोन्मदराजहंसे रोधसि = तीरे याः लताः = वल्लयस्तासां पुष्पाणि कुसुमानि, इति रोधोलतापुष्पाणि, रोधोलतापुष्पाणां वहम् = प्रापकं तस्मिन् रोधोलतापुष्पवहे ग्रीष्मे = निदाघे सुखं = सुखकरं तस्मिन् ग्रीष्मसुखे, सरवाः = सरयूनामनद्याः अम्भसि =जले तस्य = कुशस्य वनिताः = स्त्रियः सखायः=मित्राणि, सहाया इत्यर्थः यस्य स तस्य वनितासखस्य, वनिताभिः सह इत्यर्थः । विहर्तु = जलविहारं कर्तुमित्यर्थः । इच्छा=अभिलाषः बभूव = अभूत् ।