SearchBrowseAboutContactDonate
Page Preview
Page 1222
Loading...
Download File
Download File
Page Text
________________ ३४८ रघुवंशे समासः-ऊर्मिषु लोलाः उन्मदाः राजहंसाः यस्मिन् तस्मिन् उमिलोलोन्मदराजहंसे रोधसि लतास्तासां पुष्पाणि तेषां वहस्तस्मिन् रोधोलतापुष्पवहे । ग्रीष्मे सुखं तस्मिन् ग्रीष्मसुखे । वनिता सखा यस्य स तस्य वनितसखस्य । हिन्दी—इसके पश्चात् एक दिन, राजा कुश को अपनी स्त्रियों के साथ, सरयू के उस जल में विहार करने की इच्छा हुई, जिसमें लहरों पर चञ्चल तथा मतवाले बने राजहंस हैं और जो तट पर खड़ी लताओं के फूलों को बहा रहा है और गरमी में सुखप्रद है ॥ ५४ ॥ स तीरभूमौ विहितोपकार्यामानायिभिस्तामपकृष्टनक्राम् । विगा हतुं श्रीम हमानुरूपं प्रचक्रमे चक्रधरप्रभावः ॥ ५५ ॥ चक्रधरप्रभावो विष्णुतेजाः स कुशस्तीरभूमौ विहितोपकार्या यस्यास्ताम् । आनायो जालमेषामस्तीत्यानायिनो जालिकाः । 'जालमानायः' इति निपातः । 'आनायः पुंसि जालं स्यात्' इत्यमरः । तैरपकृष्टनकामपनीतग्राहां तां सरयूं श्रीमहिम्नोः संपत्प्रभावयोरनुरूपं योग्यं यथा तथा विगाहितुं प्रचक्रमे । अत्र कामन्दकः-'परितापिषु वासरेषु पश्यंस्तटलेखास्थितमाप्तसैन्यचक्रम् । सुविशोधितनक्रमीनजालं व्यवगाहेत जलं सुहृत्समेतः ।।' इति ।। अन्वयः-चक्रधरप्रभावः सः तीरभूमौ विहितोपकार्याम् आनायिभिः अपकृष्टनक्राम् तां श्रीमहिमानुरूपं “यथा स्यात्तथा” विगाहितुं प्रचक्रमे। व्याख्या-धरतीति धरः, चक्रस्य सुदर्शनस्य धरः=धर्ता, इति चक्रधरः विष्णुस्तस्यप्रभावः = तेज इव प्रभावो यस्य स चक्रधरप्रभावः, 'चक्रं सुदर्शनः' इत्यमरः। सः=कुशः तीरस्य तटस्य भूमिः स्थानं तस्यां तीरभूमौ विहिता= निर्मिता उपकार्या = उपकारिका यस्यां सा तां विहितोपकार्याम् , विहितराजगृहामित्यर्थः। आनयन्ति मत्स्यान् अनेनेति आनायः= जालमेषामस्तीति आनायिनस्तैः आनायिभिः = जालिकैः अपकृष्टाः =अपनीताः दूरीकृता इत्यर्थः नक्राः=ग्राहाः यस्याः सा ताम् अपकृष्टनक्रां तां = सरयू श्रीः= सम्पत् च महिमा =प्रभावश्चेति श्रीमहिमानौ तयोः श्रीमहिम्नोः अनुरूपं = योग्यं यथा स्यात्तथा विगाहितुं = विलोडितुं, स्नातुमित्यर्थः । प्रचक्रम-प्रवृत्तः । समासः-चक्रधरस्य प्रभाव इव प्रभावो यस्य स चक्रधरप्रभावः । तीरस्य भूमिस्तस्यां तीरभूमौ । विहिता उपकार्या यस्याः सा तां विहितोपकार्याम् । अपकृष्टाः नकाः यस्याः सा ताम् अपकृष्टनक्राम् । श्रीश्च महिमा च श्रीमहिमानौ तयोः अनुरूपं यथा तथा । हिन्दी-"जल विहार का निश्चय करके" सुदर्शन चक्रधारी विष्णु के समान प्रभावशाली राजा कुश, सरयू के जल में, अपनी सम्पत्ति तथा सामर्थ्य के अनुसार विहार करने के लिये चल पड़े, सरयू के तट पर तम्बू डेरे तान दिये, और मल्लाहों ने जाल बिछाकर मगरमच्छ आदि जीव जन्तु सरयू में से निकाल डाले, जिससे कि निर्भय होकर विहार करें ॥ ५५ ॥ सा तीरसोपानपथावतारादन्योन्यकयूरविघट्टिनीमिः । सनूपुरक्षोमपदाभिरासीदुद्विग्नहंसा सरिदङ्गनामिः ॥ ५६ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy