________________
३४६
रघुवंशे
समासः-बद्धाः रजसःकणाः यस्यां सा बद्धरजःकणा तस्याः भावस्तत्वं तस्मात् बद्धरजःकणत्वात्।
हिन्दी-पराग से भरी हुई होने से कुछ पीली-पीली अर्जुन वृक्ष की बड़ी मञ्जरी ( कोंपल, या बौर ) ऐसी सुन्दर लगती थी, मानो कामदेव के शरीर को भस्म करने के पश्चात् शिवजी के द्वारा तोड़ी गई कामदेव के धनुष की डोरी हो ॥ ५१ ॥
मनोज्ञगन्धं सहकारभङ्गं पुराणसीधुं नवपाटलं च ।।
संवधता कामिजनेषु दंषाः सर्वे निदाघावधिना प्रमृष्टाः ॥ ५२ ॥ मनोज्ञगन्धमिति सर्वत्र संबध्यते । सहकारभङ्गं चूतपल्लवखण्डम् । पुराणं वासितं शेरतेऽनेनेति शीधुः पकेक्षुरसप्रकृतिकः सुराविशेषस्तम् । 'शीडो धुक्' इत्युणादिसूत्रेण 'शीङ् स्वप्ने' इत्यस्माद्धातोर्युक्प्रत्ययः। 'पक्वैरिक्षुरसैरस्त्री शीधु: पक्वरसः शिवः' इति यादवः। नवं पाटलायाः पुष्पं पाटलं च संबध्नता संघट्टयता निदावावधिना श्रीष्मकालेन । 'अवधिस्त्ववधाने स्यात्सोम्नि काले बिलेऽपि च' इति विश्वः । कामिजनेषु विषये सर्वे दोषास्तापादयः प्रमृष्टाः परिहृताः ॥
अन्वयः-मनोज्ञगन्धं सहकारभंगं, पुराणशीधुं नवपाटलं च सम्बध्नता निदाघावधिना कामिजनेषु सर्वे दोषाः प्रमृष्टाः।।
व्याख्या-मनसा जानातीति मनोशः=मनोहरः गन्धः = सुरभिः यस्य स तं मनोज्ञगन्धं, सहकारयति = मेलयति द्वन्द्वमिति सहकारः, सहकारस्य = आम्रपल्लवस्य भंगः = खण्डस्तं सहकारभंगम् , मनोज्ञगन्धं शेरतेऽनेनेति शीधुः, पुराणश्चासौ शीधुः = इक्षुरसस्य सुराविशेषस्तं पुराणशीधुम् , मनोज्ञगन्धं, पाटलायाः पुष्पं पाटलं नवं नूतनञ्च तत्पाटलमिति नवपाटलं तत् कृष्णवृन्तायाः पुष्पम् च संबध्नता = संघट्टयता निदाघस्य = ग्रीष्मस्य अवधिः = समयः, ऋतुरित्यर्थः, तेन निदाधावधिना “अवधिस्त्ववधाने स्यात् सीम्नि काले बिले पुमान्" इति मेदिनी। कामिजनेषु = विलासिजनेषु विषये सर्वे = सम्पूर्णाः दोषाः = तापादयः प्रमृष्टाः = परिहृताः । सर्वथा दूरीकृता इत्यर्थः ।
समासः-मनोज्ञः गन्धः यस्य स तं मनोज्ञगन्धम् । सहकारस्य भंगस्तं सहकारभङ्गम् । पुराणश्चासौ शीधुश्च तं पुराणशीधुम् । नवञ्च तत्पाटलं तत् नवपाटलम् । निदावरय अवधिस्तेन निदाघावधिना।
हिन्दी-मनोहर गन्धवाले आम के कोंपल या बौर तथा अच्छी सुवासित ईख के रस की मदिरा, और नये पाटल के पुष्प ( लाल लोध्र के फूल ) इन सबको एक साथ लाकर ग्रीष्म ऋतु ने कामी पुरुषों के सब कष्ट दूर कर दिए ॥ ५२ ॥
जनस्य तस्मिन्समये विगाढे बभूवतुद्वौ सविशेषकान्तौ । तापापनोदक्षमपादसेवौ स चोदयस्थौ नृपतिः शशी च ॥ ५३ ॥