________________
३३६
रघुवंशे
समासः-कुसुमप्रधानाः द्रुमाः, कुसुमद्रुमास्तेषां कुसुमद्रुमाणाम् । सरय्वाः तरंगास्तान् सरयूतरंगान् । क्लान्तं सैन्यं यस्य स तं क्लान्तसैन्यम् । कुलस्य राजधानी कुलराजधानी तस्याः कुलराजधान्याः । उपवनानाम् अन्तः, तस्य वायुः उपवनान्तवायुः।
हिन्दी-अपने कुल की परम्परागत राजधानी अयोध्या के उपवनों के बीच से निकले वायु ने, फूलों से लदी हुई डालियों को जरा हिलाकर, और सरयू की शीतल तरंगों का स्पर्श करके, सेना सहित थके हुए राजा कुश का सामने से अभिनन्दन किया, अर्थात् शीतल मन्द सुगन्ध वायु ने उनके श्रम को दूर किया ॥ ३६ ॥
अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौरसखः स राजा ।
कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि ॥ ३७ ॥ अथ रिपुषु मन्नं शल्यं शङ्कः शरो वा यस्य सः। 'शल्यं शङ्कौ शरे वंशे' इति विश्वः । पौराणां सखा पौरसखः कुलस्य ध्वजश्चिह्नभूतो बली स राजा चलाश्चलन्तो वा ध्वजा येषां तानि तानि बलानि सैन्यानि तस्याः पुरः पुर्या उपशल्ये ग्रामान्ते । 'ग्रामान्त उपशल्यं स्यात्' इत्यमरः। निवेशयामास ॥
अन्वयः--अथ रिपुमग्नशल्यः पौरसखः कुलध्वजः बली सः, चलध्वजानि तानि बलानि तस्याः पुरः उपशल्ये निवेशयामास ।
व्याख्या-अथ = अनन्तरं रिपुषु = शत्रुषु मग्नं=लीनं शल्यं = शंकुः, सायकं वा यस्य सः, रिपुमग्नशल्यः “वा पुंसि शल्यं शंकु र्ना" इत्यमरः। "वेडाशंकुशरे शल्यं ना" इति च कोषः । पुरे भवाः पौराः, पौराणां नागरिकाणां सखा = मित्रमिति पौरसखः कुलस्य =रघुवंशस्य ध्वजः=चिह्नभूतः, इति कुलध्वजः बलमस्यास्तीति बली = बलवान् सः, राजा, कुशः चलाः= चंचला दोधूयमानाः ध्वजाः= पताकाः येषां तानि चलध्वजानि तानि बलानि = सैन्यानि, सैनिकानित्यर्थः। तस्याः पुरः = नगर्याः, अयोध्यायाः शल्यम् उपगतः, उपशल्यम् = ग्रामान्ते, उपकण्ठमित्यर्थः । “उपकण्ठोपशल्ये द्वे" इति त्रिकाण्डशेषः । “ग्रामान्त उपशल्यं स्यादि"त्यमरः। निवेशयामास = स्थापयमास ।
समासः-रिपुषु मग्नं शल्यं यस्य स रिपुमग्नशल्यः । पौराणां सखा, इति पौरसखः । कलस्य ध्वजः इति कुलध्वजः। चलाः ध्वजाः येषां तानि चलध्वजानि तानि। शल्यमुपगतः इति उपशल्यम् ।
हिन्दी-और वहाँ पहुँचने पर शत्रुओं के ऊपर बाण गाड़ने वाले, ( शत्रुओं के संहारक ) नागरिकों के मित्र, ( पालक ) तथा अपने कल को चमकानेवाले बलवान् उस राजा कुश ने, फहराती ध्वजा वाले अपने सैनिकों को उस नगर अयोध्या के आस-पास के स्थानों पर ठहरा दिया। अर्थात् नगर के बाहर ही पड़ाव डाल दिया ॥ ३७॥
तां शिल्पिसंघाः प्रभुणा नियुक्तास्तथागतां संभृतसाधनत्वात् । पुरं नवीचक्रुरपां विसर्गान्मेघा निदाघग्लपितामिवोर्वीम् ॥ ३८ ॥