________________
षोडशः सर्गः
३३५
इत्यध्वनः कैश्चिदहोमिरन्ते कूलं समासाद्य कुशः सरय्वाः ।
वेदिप्रतिष्टान्वितताध्वराणां यूपानपश्यच्छतशो रघूणाम् ।। ३५ ।। इति कैश्चिदहोभिरध्वनोऽन्तेऽवसाने कुशः सरवाः कूलं समासाद्य वितताध्वराणां विस्तृतमखानां रघूणाम् । वेदिः प्रतिष्ठास्पदं येषां तान् । यूपान्यशियपशुबन्धनस्तम्भाञ्छतशोऽपश्यत् ॥
अन्वयः-इति कैश्चित् अहोभिः अध्वनः अन्ते, कुशः सरवाः कूलं समासाद्य, वितताध्वराणां रघूणां वेदिप्रतिष्ठान् शतशः यूपान् अपश्यत् । ___ व्याख्या-इति = इत्थं पूर्वोक्तप्रकारेण कैश्चित् = कतिपयोभिः अहोभिः = दिनैः अध्वनः = मार्गस्य अन्ते = अवसाने, अतिक्रान्ते सति इत्यर्थः। कुशः =राजा सरवाः = एतन्नामकनद्याः कूलं = तटं समासाद्य = प्राप्य वितताः = विस्तृता अध्वराः = यशाः = मखाः यैस्ते तेषां वितताध्वराणाम् रघूणां = रघुवंशीयानां विद्यते = शोधनेन ज्ञायते, विचार्य्यते, प्राप्यते वा वेदिः= परिष्कृता भूमिः प्रतिष्ठा = आस्पदं, स्थानं येषां ते तान् वेदिप्रतिष्ठान् शतशः = शतसंख्याकान् , असंख्यान् यूपान् = स्तम्भान् अपश्यत् = अवलोकयामास ।
समासः-वेदिः प्रतिष्ठा येषां ते तान् वेदिप्रतिष्ठान्। वितताः अध्वराः यैस्ते तेषां वितताध्वराणाम् ।
हिन्दी-इस प्रकार कुछ दिनों में रास्ता समाप्त करके राजा कुश ने सरयू नदी के किनारे पर पहुँच कर बड़े-बड़े यज्ञों को सम्पन्न करने वाले रघुवंशियों के गाड़े हुए वेदियों पर सैकड़ों यज्ञस्तम्भ देखे ॥ ३५॥
आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरङ्गान् ।
तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युजगामोपवनान्तवायुः ॥ ३६ ॥ कुलराजधान्या उपवनान्तवायुः कुसुमद्रुमाणां शाखा आधुयेषद्धृत्वा। सुरभिर्मन्दश्चेत्यर्थः । शोतान्सरयूतरङ्गांश्च स्पृष्ट्वा । अनेन शैत्योक्तिः । क्लान्तसैन्यं तं कुशं प्रत्युज्जगाम ॥
अन्वयः-कुलराजधान्याः उपवनान्तवायुः कुसुमद्रुमाणां शाखाः आधूय शीतान् सरयूतरंगान् स्पृष्ट्वा लान्तसैन्यं तं प्रत्युज्जगाम ।
व्याख्या-कुलस्य वंशस्य राजधानी = प्रधाननगरी इति कुलराजधानी तस्याः कुलराजधान्या , उपवनानाम् =आरामाणाम् अन्तः =मध्यस्तस्य वायुः = पवनः, इति उपवनान्तवायुः, कुसुमानि=पुष्पाणि प्रधानानि येषु ते कुसुमप्रधानाः कुसुमप्रधानाश्च ते द्रुमाः=वृक्षाः इति कुसुमद्रुमाः, शाकपार्थिवादित्वात् उत्तरपदलोपः। तेषां कुसुमद्रुमाणां शखाः =लताः “समे शाखालते" इत्यमरः। आधूय = किंचित् प्रकम्प्य, अनेन सुरभित्वं मन्दत्वं व्यज्यते । शीतान् = शीतलान् सरखाः सरयूनद्याः तरंगाः=ऊर्मयः, तान् सरयूतरंगान् स्पृष्ट्वा =उपस्पृश्य, आलिंग्येत्यर्थः। अनेन शीतलत्वोक्तिः। क्लान्तं = म्लानं सैन्यं =सेना यस्य स तं क्लान्तसैन्य तं = राजानं कुशं प्रत्युज्जगाम = प्रत्यद्गतः, राशः स्वागतार्थ वायुः सम्मुखमागत इत्यर्थः ।