________________
षोडशः सर्गः
__ प्रभुणा नियुक्ताः शिल्पिनां तक्षादीनां संघाः संभृतसाधनत्वान्मिलितोपकरणत्वात्तां तथागताम् । शून्यामित्यर्थः । पुरमयोध्याम् । मेघा अपां विसर्गाज्जलसेकान्निदाघग्लपितां ग्रीष्मतप्तामुवीमिव । नवीचक्रुः परिपूरयांचक्रुः ॥
अन्वयः-प्रभुणा नियुक्ताः शिल्पिसंघाः सम्भृतसाधनत्वात् तां तथागतां पुरं मेवाः अपां विसर्गात् निदाघग्लपिताम् उर्वीम् इव नवोचक्रुः ।
व्याख्या-प्रकर्षेण भवतीति प्रभुः तेन प्रभुणा = स्वामिना कुशेन नियुक्ताः = आदिष्टाः शिल्पमस्ति येषां ते शिल्पिनः, शिल्पिनां कलाविदां, तक्षादीनामित्यर्थः संवाः समूहाः, इति शिल्पिसंघाः सम्भृतानि = संगृहीतानि साधनानि = उपकरणानि यस्ते, तेषां भावस्तत्वं तस्मात् सम्भृतसाधनत्वात् तां तथागतां = जनवियुक्तां शून्यामित्यर्थः। पुरम् =अयोध्या मेघाः पयोदाः अपां जलानां विसर्गात् = त्यागात् , वर्षणादित्यर्थः। निदावेन =ग्रीष्मेण ग्लपिता = तप्ता तां निदाघग्लपिताम् उवीं पृथिवीम् इव यथा नवी वक्रुः नूतनां कृतवन्तः, परिष्कृतां सुशोभिताश्च कृतवन्तः इत्यर्थः ।
समासः-शिल्पिनां संघाः शिल्पिसंघाः। निदाघेन ग्लपिता निदावग्लपिता तां निदाघग्लपिताम् । संभृतानि साधनानि यस्ते संभृतसाधनाः तेषां भावस्तत्वं तस्मात् संभृतसाधनत्वात् ।
हिन्दी-जिस प्रकार बादल जल वर्षाकर गरमी से तपी सूखी धरती को हरी भरी बना देते हैं, उसी प्रकार राजा कुश के द्वारा लगाए गए कारीगरों के समूह ने सब सामग्री से पूर्ण होने के कारण, उस सूनी उजाड़ पड़ी अयोध्या को सजाकर नई बना दिया ॥ ३८॥
ततः सपर्या सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः ।
उपोषितैर्वास्तुविधानविद्भिनिवर्तयामास रघुप्रवोरः ॥ ३९ ॥ ततो रघुप्रवीरः कुशः प्रतिमा देवताप्रतिकृतयः। अर्ध्या इत्यर्थः। परार्थ्यप्रतिमागृहायाः प्रशस्तदेवतायतनायाः पुर उपोषितैर्वास्तुविधानविद्भिः प्रयोज्यैः पशूपहारैः सहित सपशूपहारां सपर्या निवर्तयामास कारयामास। अत्र ण्यन्ताण्णिच्पुनरित्यनुसंधेयम् । अन्यथा वृतेरकर्मकस्य करोत्यर्थत्वे कारयत्यर्थाभावप्रसङ्गात् । भवितव्यं वृतेरण्यन्तका प्रयोज्यत्वेन तन्निर्देशात्प्रयोगान्तरस्यापेक्षितत्वात् ॥
अन्वयः-ततः रघुप्रवीरः परायप्रतिमागृहायाः पुरः उपोषितैः वास्तुविधानविद्भिः सपशूपहारां सपयाँ निवर्तयामास । ___ व्याख्या-ततः नगरपरिष्करणानन्तरम् रघुषु रघुकुलेषु प्रवीरः=श्रेष्ठः, इति रघुप्रवीरः = कुशः परस्मिन्नर्धे भवाः परार्ध्याः । परार्ध्यानां = प्रशस्तानां,श्रेष्ठानामित्यर्थः। प्रतिमानां = मूर्तीनां गृहाः = मन्दिराणि यस्यां सा तस्याः परायप्रतिमागृहायाः पुरः=अयोध्यायाः उपोषितैः कृतोपवासैः वसन्त्यत्र वास्तुः। वास्तूनां = भवनानां विधानं = निर्माणं विदन्ति = जानन्तीति वास्तुविधानविदः तैः वास्तुविधानविद्भिः, वास्तुकर्मशैर्वा प्रयोज्यैः पशूनां छागा