________________
रघुवंश महाकाव्ये
सञ्जीविनी -- कोष्णेन किंचिदुष्णेन । 'कवं चोष्णे' इति चकारात्कादेशः । अवभृथादप्यवभृथस्नानादपि मेध्येन पवित्रेण, 'पूतं पवित्रं मेध्यं च' इत्यमरः । वत्स - स्यालोकेन प्रदर्शनेन प्रवर्तिना प्रवहता प्रस्नवेन क्षीराभिस्यन्दनेन भुवमभिवर्षन्ती सिञ्चन्ती । कुण्डमिवोध आपीनं यस्याः सा कुण्डोध्नी । 'ऊधस्तु क्लीबमापीनम्' इत्यमरः । 'उधसोऽनङ' इत्यनङादेशः । 'बहुव्रीहेरूधसो ङीष्' इति ङीष् । :- कोष्णेन, अवभृथात्, अपि, मेध्येन, वत्सा लोकप्रवर्तना, प्रस्नवेन, भुवम्, अभिवर्षन्ती, कुण्डोध्नी, वनात्, 'आववृते' |
अन्वयः -
८२
वाच्य०-:
- अभिवर्षन्त्या, कुण्डोध्न्या, वनात् आववृते । व्याख्या--कोष्णेन = किंचिदुष्णेन, अवभृयात् = यज्ञाङ्गभूतस्वानविशेषात्, अपि, मेध्येन = पवित्रेण, वत्सस्य = तर्णकस्य, आलोकः = दर्शनम्, वत्सालोकः, वत्सा लोकेन, प्रवर्तते = प्रवहति इति वत्सा लोकप्रवर्ती, तेन वत्स लोकप्रवर्तिना, प्रस्नवेन = अभिष्यन्दनेन, भुवम् = भूमिम्, अभिवर्षन्ती = सिञ्चन्ती, कुण्डम् = उखा 'पिठरः स्थाल्युखा कुण्डम्' इत्यमरः, तत् इव ऊधः = आपीनम् यस्याः सा कुण्डोनी, 'वनात् आववृते' |
समा० - ईषदुष्णं कोष्णम् तेन कोष्णेन, वत्सस्य आलोकः वत्सालोकः वत्सालोकेन प्रवर्तते इति वत्सालोकप्रवर्ती तेन व सालोकप्रवर्तिना, कुण्डम् इव ऊधः यस्याः सा कुण्डोध्नी ।
अभि० - - किञ्चिदुष्णेनावभूथनामकस्य यज्ञान्त स्नानस्य जलादपि पवित्रेण, स्ववत्सं निरीक्ष्य स्वयमेव प्रच्यवता दुग्धेन भूमि सिञ्चन्ती कुण्डतुल्या पीनधारिणी नन्दिनी वनादाववृते ।
हिन्दी -- कुछ गरम तथा यज्ञान्तस्नानजल से भी पवित्र एवं बछड़े को देखकर स्वयं टपकने वाले दूध से पृथ्वी को सींचती हुई स्थूल थन वाली नन्दिनी बन से लौटी ॥ ८४ ॥
रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात् ।
तीर्थाभिषेक शुद्धिमादधाना महीक्षितः ॥ ८५ ॥
सञ्जीविनी --खुरोद्धूतैरन्तिकात्समीपे गात्रं स्पृशद्भिः । 'दूरान्तिकार्थेभ्यो द्वितीया च' इति चकारात्पञ्चमी । रजसां कर्णः महीं क्षियत ईष्ट इति महीक्षित्तस्य । तीर्थाभिषेकेण जातां तीर्थाभिषेकजाम् | शुद्धिमादधाना कुर्वाणा ।