________________
प्रथमः सर्गः
पतेन वायव्यं स्नानमुक्तम् । उक्तं च मनुना-'आग्नेयं भस्मना स्नानमवगाह्य तु वारुणम् । आपोहिष्ठेति च ब्राह्म वायव्यं गोरजः स्मृतम् ॥' इति ।।८५॥ ___ अन्वयः-खुरोधूतः, अन्तिकात्, गात्रम्, स्पृशद्भिः रजःकणः, महीक्षितः, तीर्थाभिषेकजाम्, शुद्धिम्, मावधाना, 'वनात् आववृते'।
वाच्य०-आदधानया, 'नन्दिन्या' वनात्, आववृते।।
व्याल्या--खुरैः= शर्फः, उद्धृताः= उत्थापिताः, इति खुरोद्धृताः तः खुरोद्भूतः, अन्तिकात् = समीपात्, गात्रम् = शरीरम्, स्पृशद्भिः= स्पर्श कुर्वद्भिः, रजसाम् =धुलीनाम, कणाः= लवाः, 'लवलेशकणाणवः' इत्यमरः । रजःकणाः, तैः रजःकणः, महीम् = भूमिम्, क्षियते= ईष्टे, इति महीक्षित् तस्य महीक्षितः, तीर्थस्य = यज्ञस्य जलावतारस्य वा, अभिषेकः=अभिषिञ्चनम्, तीर्थाभिषेकः, तीर्थाभिषेकेण, जाता = उत्पन्ना, तीर्थाभिषेकजा ताम् तीर्याभिषेकजाम्, शुद्धिम् पवित्रताम्, आदधाना=कुर्वाणा, 'नन्दिनी वनात् आववृते।
समा०--खुरः उद्धृता खुरोद्धृताः तैः खुरोद्धृतः । रजसाम् कणारजःकणाः तः रजःकणैः। महीम् क्षियते इति महीक्षित् तस्य महीक्षितः । तीर्थस्य अभिषेक: तीर्थाभिषेकः तीर्थाभिषेकात् जाता तीर्थाभिषेकजा ताम् तीर्थाभिषेकजाम् ।
अभि०-खुरोत्थापितधूलिकणः समीपे वर्तमानस्य राज्ञो दिलीपस्य गात्र. स्पर्श कुर्वद्भिः यथा तीर्थाभिषेकेण शुद्धिर्भवति तथैव शुधिं कुर्वाणा नन्दिनी वनात्प्रतिनिवृत्ता।
हिन्दी-समीप में स्थित राजा दिलीप के शरीर को स्पर्श करनेवाली खुरों से उठाई धूलि से तीर्थ जल में स्नान करने से उत्पन्न शुद्धि को करती हुई नन्दिनी वन से लौटी ॥५॥
तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोनिधिः।
याज्यमाशंसितावन्ध्यप्रार्थनं पुनरब्रवीत् ॥८६॥ सञ्जीविनी--निमित्तज्ञः शकुनजस्तपोनिधिर्वसिष्ठः पुण्यं दर्शनं यस्यास्तां धेनुं दृष्ट्वा। आशंसितं मनोरथः । नपुंसके भावे क्तः । तत्रावन्ध्यं सफलं प्रार्थन यस्य स तम् । अवन्ध्यमनोरथमित्यर्थः। याजयितुं योग्यं याज्यं पार्थिवं पुनरब्रवीत्। ___ अन्वयः-निमित्तशः, तपोनिधिः, पुण्यदर्शनाम् ताम् दृष्ट्वा, आशंसितावन्ध्य. प्रार्थनम्, याज्यम्, पुन:, अब्रवीत् ।