________________
प्रथमः सर्गः सजीविनी--पल्लववत्स्निग्धा चासो पाटला च। संध्यायामप्येतद्विशेषणं योज्यम् । ललाट उदयो यस्य स ललाटोदयः। तमाभग्नमीषतक्रम् । 'आविलं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि' इत्यमरः । 'ओदितश्च' इति निष्ठातस्य नत्वम् । श्वेतरोमाण्यवाङ्कस्तं बिभ्रती । नवं शशिनं बिभ्रती संध्येव स्थिता।
अन्वयः--पल्लवस्निग्धपाटला, ललाटोदयम्, आभुग्नम्, श्वेतरोमाङ्कम् विभ्रती, नवम्, शशिनम्, "बिभ्रती" सन्ध्या, इव "स्थिता" "वनात् आववृते"।
वाच्य०-पल्लवस्निग्धपाटलया, बिभ्रत्या, सन्ध्यया, इव, "स्थितया," वनात्, "आववृते"।
व्याल्या-स्निग्धा=मसूणा च असो पाटला-श्वेतरक्ता च ति स्निग्धपाटला, ललाटे = मस्तके, उदयः= उन्नतिः यस्य सः ललाटोदया तम्, आ= ईषद्, भुग्ना=वक्र इति आभुग्नः तम्, श्वेतानि धवलानि च तानि, रोमाणि = लोमानि, इति श्वेतरोमाणि, तान्येव अङ्कः, तम्, श्वेतरोमाङ्कम् बिभ्रती = धारयन्ती, नवम् = नूतनम्, शशिनम् = चन्द्रमसम् "बिभ्रती," सन्ध्या= सायंकालः, इव= यथा, "स्थिता वनात् आववृत्ते"।
समा०--स्निग्धा चासो पाटला च स्निग्धपाटला, पल्लववत् स्निग्धपाटला इति पल्लवस्निग्धपाटला । ललाटे उदयः यस्य स ललाटोदयः तम् ललाटोदयम् । था ईषद् भुग्नः आभुग्नः तम् आभुग्नम्, श्वेतानि च तानि रोमाणि श्वेतरोमाणि, श्वेतरोमाणि एव अङ्कः श्वेतरोमाङ्कः, तम् श्वेतरोमाङ्कम् ।
अभि०--यथा नवपल्लवसदृशं चिक्कणं श्वेतरक्तं वक्रं च द्वितीयाचन्द्र धारयन्ती सन्ध्या शोभते तथैव तादृशं ललाटस्थं श्वेतरोमाकं धारयन्ती नन्दिनी वनात् प्रत्यायाता शुशुभे ।
हिन्दी-जिस प्रकार कोमल किसलय के समान चिकने, सफेद लाल तथा कुछ टेढ़े द्वितीया के चन्द्रमा को धारण करने वाली संन्ध्या सुशोभित होती है, उसी प्रकार, ललाट में स्थित वैसे ही रोमचिह्न को धारण करने वाली वन से लौटी नन्दिनी सुशोभित हुई ॥३॥
भुवं कोष्णेन कुण्डोम्नी मेध्येनावभृथादपि । प्रस्नवेनाभिवर्षन्ती वत्सालोकप्रवर्तिना॥४॥