________________
रघुवंशमहाकाव्ये
अभि० -- इदानीं त्वं कामधेनुसुतां नन्दिनीं तत्प्रतिनिधि कृत्वा शुद्धो भूत्वा सभार्यः सन् संसेवस्व, यतः सा प्रसन्ना भूत्वा मनोरथदात्री भवति ।
हिन्दी - - इस समय तुम कामधेनु की पुत्री नन्दिनी को ही उसकी प्रतिनिधि मानकर शुद्ध होकर भार्या सहित पूजा करो, क्योंकि प्रसन्न होने पर वह मनोरथ पूर्ण कर देती है ॥ ८१ ॥
८२ ॥
इति वादिन एवास्य होतुराहुतिसाधनम् । अनिन्द्या नन्दिनी नाम धेनुराववृते वनात् ॥ सञ्जीविनी - इति वादिनो वदत एव होतुवनशीलस्य । 'तुन्' इति तन्प्रस्ययः । अस्य मुनेराहुतीनां साधनं कारणम् । नन्दयतीति व्युत्पत्या नन्दिनी नामानिन्द्यागर्ह्या प्रशस्ता धेनुर्वनादाववृते प्रत्यागता । 'अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेहि लक्षणम्' इति भावः ॥ ८२ ॥
अन्वयः --- इति, वादिनः, एव होतु, अस्य, आहुतिसाधनम्, नन्दिनी, नाम, अनिन्द्या, घेन, वनात्, आववृते ।
वाच्य० -- आहुति साधनेन, नन्दिग्या, अनिन्द्यया, घेन्वा, वनात्, आववृते । व्याख्या — इति = इत्थम्, वादिनः = कथ्यतः, एव, होतुः = हवनशीलस्य, अस्य = मुनेः आहुतीनाम् = हवनसामग्रीणाम्, साधनम् कारणम्, इति आहुतिसाधनम्, नन्दिनी = तन्नाम्नी कामधेनुसुता नाम इति प्रसिद्धौ निन्दितुम् योग्या निन्द्या, न निन्द्या अनिन्द्या, प्रशंसनीयेत्यर्थः, धेनुः = नवप्रसूता गौः, वनात् = कानवात्, आववृते = आजगाम ।
८०
समा० - आहुतीनाम् साधनम् आहुतिसाधनम् निन्दितुम् योग्या निन्द्या, न निन्द्या अनिन्द्या |
अभि० - एवं कथयत एव वसिष्ठस्य यज्ञे दध्याज्यादिसाधनभूता कामधेनुसुता नन्दिनी वनात्प्रत्याजगाम ।
हिन्दी - वसिष्ठजी के ऐसा कहते हुए ही यज्ञ की आहुति दधि, घी आदि का साधन, कामधेनु की पुत्री नन्दिनी नाम की नई व्याई गाय वन से लौट आई || संप्रति धेनु विशिनष्टि
ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला ।
बिभ्रती श्वेतरोमाङ्कं संध्येव शशिनं नवम् ॥८३॥