________________
प्रथमः सर्गः
= यान्ति, इति भुजङ्गाः, सर्पाः, भुजङ्गः, पिहितम् = अवरुद्धम्, द्वारम् = प्रवेशमार्गः, यस्य तत् भुजङ्गपिहितद्वारम्, तत् पातालम् = रसातलम्, अधितिष्ठति = अध्यास्ते ।
समा०--दीर्घम् सत्रम् यस्य सः दीर्घसत्रः तस्य दीर्घसत्रस्य । भुजाभ्याम् गच्छन्ति इति भुजङ्गाः, भुजङ्गः पिहितम् द्वारम् यस्य तत् भुजङ्गपिहितद्वारम् तत् भुजङ्गपिहितद्वारम् ।
अभि०--सा च कामधेनुरिदानी चिरकालसाध्यं यागं कुर्वतो वरुणस्य भवने दध्याज्यादिहविःसंपादनाय पातालं गता आस्ते, यस्य मार्गः सरवरुद्धोऽस्ति ।
हिन्दी और वह कामधेनु इस समय चिरकाल साध्य वरुण के यज्ञ में दही, आदि हविष्य के लिये सर्पो से अवरुद्धमार्ग वाले पाताल में गई हुई है ॥५०॥ तर्हि का गतिरित्यत आह
सुतां तदीयां सुरभेः कृत्वा प्रतिनिधि शुचिः।
आराधय सपत्नीकः प्रीता कामदुधा हि सा॥८१॥ सजोविनी--तस्याः सुरभेरियं तदीया तां सुतां सुरभेः प्रतिनिधि कृत्वा शुचिः शुद्धः । सह परल्या वर्तत इति सपत्नीकः सन् । 'नयतश्च' इति कप्प्रत्ययः। आराधय । हि यस्मात्कारणात्सा प्रीता तुष्टा सती। कामान्दोग्धीति कामदुधा भवति । 'दुहः कब्धश्च' इति कप्प्रत्ययः, धादेशश्च ।।८११॥
अन्वयः--सदीयाम्, सुताम्, सुरभेः, प्रतिनिषिम्, कृस्वा, शुचिः, सपत्नीकः, 'सन्', आराधय, हि, सा, प्रीता, 'सतो', कामवुघा, 'भवति ।
वाच्य०--तदीया सुता सुरभेः प्रतिनिधिः शुचिना सपत्नीकेन 'त्वया' आराध्यताम, तया प्रीतया कामदुघया 'भूयते'।
व्याख्या-तस्याः = कमधेनोः इयम् तदीया ताम् तदीयाम्, सुताम् = दुहितरम्, सुरभेः= कामधेनोः, प्रतिनिधिम् = प्रतिच्छायाम्, कृत्वा=विधाय, शुचिः= शुद्धः, पत्न्या= भार्यया, सुदक्षिणया सह वर्तमानः सपत्नीकः, 'सन्' आराधय = सेवस्व, हि= यतः, सा= नन्दिनी, प्रीता= प्रसन्ना 'सती', कामान् मनोरथान्दोग्धिप्रपूरयति, इति कामदुधा, 'भवति'।
समा०-तस्याः इयम् तदीया ताम् तदीयाम्, पन्या सह वर्तमानः सपलोकः, कामान्दोग्धि इति कामदुधा ।