________________
रघुवंशमहाकाव्ये वाच्य०--'त्वया' विद्यताम्, पूज्यपूजाव्यतिक्रमेण श्रेयः प्रतिबध्यते ।
ध्याख्या--तस्याः= कामधेनोः, अवज्ञानम् = तिरस्कारः तदवज्ञानम् तस्मात् तदवज्ञानात्, आत्मनः = स्वस्य, ईप्सितम् = मनोरथम् अर्गलया शृङ्खलया सह 'वर्तमानम्, सागंलम् प्रतिबन्धयुक्तमित्यर्थः, विद्धि = जानीहि, हि= यतः, पूजितुम् = अचितुं योग्याः पूज्याः, पूज्यानाम् पूजा = अर्चा, पूज्यपूजा, पूज्यपूजायाः व्यतिक्रमः= उल्लंघनम् इति पूज्यपूजाव्यतिक्रमः, श्रेयः = कल्याणम्, प्रतिबनाति = रुणद्धि ।
समा०-तस्याः अवज्ञानम् तदवज्ञानम् तस्मात् तदवज्ञानात् । अर्गलया सह वर्तमानम् इति सार्गलम् । पूजितुं योग्याः पूज्याः पूज्यानां पूजा इति पूज्य. पूजा पूज्यपूजायाः व्यतिक्रमः पूज्यपूजाव्यतिक्रमः ।
अभि०-अतः कामधेनोरनादरात्तव सन्तानप्रतिबन्धो जाता, पूजार्हाणां पूजाभावः कल्याणस्य प्रतिबन्धको भवति।
हिन्दी--इसलिये कामधेनु का अनादर करने से तुम्हारे सन्तान होने में बाधा पड़ गई है। क्योंकि पूज्य की पूजा के उल्लंघन से कल्याण में बाधा हो जाती है ॥७९॥ तहिं गत्वा तामाराधयामि । स्वयं वा कथंचिदागमिष्यतीत्याशा न कर्तव्यत्याह--
हविषे दीर्घसत्रस्य सा चेदानी प्रचेतसः।
भुजङ्गपिहितद्वारं पातालमधितिष्ठति ॥८॥ सञ्जीविनी-सा च सुरभिरिदानी दीर्घ सत्रं चिरकालसाध्यो यागविशेषो यस्य तस्य प्रचेतसो हविषे दध्याज्यादिहविरथं भुजंगपिहितद्वारं भुजंगावरुद्धद्वारं ततो दुष्प्रवेशं पातालमधितिष्ठति। पाताले तिष्ठतीत्यर्थः। 'अधिशीङस्थासां कर्म' इति कर्मत्वम् ॥८॥
अन्वयः--सा, च, इदानीम्, वीर्घसत्रस्य, प्रचेतसः, हविषे, भुजङ्गपिहितद्वारम्, पातालम्, अधितिष्ठति।
वाच्य०--तया, अधिष्ठीयते ।
ध्याख्या--सा= कामधेनुः, च = तथा, इदानीम् = अधुना, दीर्घम् = चिरकालसाध्यम्, सत्रम् = यागविशेषः, यस्य सः दीर्घसत्रः, तस्य दीर्घसत्रस्य, प्रचेतसः= वरुणस्य, हविषे = दध्यादिहविरर्थम्, भुजाभ्याम् = बाहुभ्याम्, गच्छन्ति