________________
रघुवंशे
हिन्दी - “ पहले " रातों में चमचमाते तथा झनझनाते ( मधुर अव्यक्त ध्वनि करते ) नूपुर ( विछवों ) वाली अभिसारिकाओं के संचरण का जो मार्ग था, "वहाँ पर अब " वे सियारि घूम-फिर रही हैं जिनके चिल्लाते मुख से आग की लपट निकलती, और उसी के प्रकाश में माँस ढूंडती हैं ॥ १२ ॥
३२०
आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिमन्वगच्छत् ।
वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् ।। १३ ।।
यदम्भः प्रमदाकराग्रेरास्फालितं ताडितं सत् । जलक्रीडास्विति शेषः । मृदङ्गानां यो धीरध्यनिस्तमन्वगच्छदन्वकरोत् । तद्दीघिकाणामम्भ इदानीं वन्यैर्महिषैः कर्तृभिः शृङ्गविषाणैराहतं सत्क्रोशति । न तु मृदङ्गध्वनिमनुकरोतीत्यर्थः ॥
अन्वयः - यत् प्रमदाकराग्रैः आस्फालितं सत् मृदंगधीरध्वनिम् अन्वगच्छत्, तत् दीर्घिकाणाम् अम्भः इदानीम् वन्यैः महिषैः श्रृंगाहतंसत् क्रोशति ।
=
व्याख्या—यत्=अम्भः प्रमदः = हर्षः अस्ति यासां ताः प्रमदाः प्रमदानां = कामिनीनां कराग्राणि = हस्ताग्राणितैः प्रमदाकरायैः आस्फालितं = ताडितं सत् जलकेलिसमये इति शेषः । मृद्यन्ते इति मृदंगा, मृत् अंगम् एषामस्ति, इति वा मृदंगाः । धीरः = गम्भीरश्चासौ ध्वनिः = शब्दः इति धीरध्वनिः । मृदंगानां = मुरजानां धीरध्वनिरिति मृदंगधीरध्वनिस्तं मृदंगधीरध्वनिम् “मृदंगा मुरजाः” इत्यमरः । अन्वगच्छत् = अन्वकरोत्, तत् = स्फालितम् दीर्घा एव दीर्घिका|स्तासां दीर्घिकाणां = वापीनाम् अम्भः = जलम् इदानीं = सम्प्रति वने भवाः वन्यास्तैः वन्यैः = आरण्यकैः महिषैः = सैरिभैः कर्तृभिः शृंगैः = विषाणैः आहतं = स्फालितमिति शृंगाहतं सत् क्रोशति = कर्णकटु नदति । अर्थात् मुरजशब्दं नानुकरोतीत्यर्थः ।
समासः—प्रमदानां कराग्राणि, तैः प्रमदाकराः । मृदंगानां धीरश्वासौ ध्वनिः इति मृदंगधीरध्वनि स्तं मृदंगधीरध्वनिम् । शृंगैः आहतमिति शृंगाहतम् ।
हिन्दी – पहले जो बावलियों का जल “जलक्रीड़ा के समय” सुन्दरियों के हाथों से आ होकर मृग की गम्भीर ध्वनि का अनुकरण करता था, अर्थात् मृदंग की तरह मधुर ध्वनि करता था । वही बावलियों का जल आजकल जंगली भैसों के सींगों से चोट खाकर बड़ी कर्णकटु ध्वनि करता है । अर्थात् जहाँ सुन्दरियाँ जलक्रीड़ा करती थीं वहाँ अब जंगलो भैसे लोटते हैं ॥ १३ ॥
वृक्षेशया यष्टिनिवासभङ्गान्मृदङ्गशब्दापगमादलास्याः ।
प्राप्ता दवोल्काहतशेषबर्हाः क्रीडामयूरा वनबर्हिणत्वम् ॥ १४ ॥
यष्टिरेव निवासः स्थानं तस्य भङ्गात् । वृक्षे शेरत इति वृक्षेशयाः । ' अधिकरणे शेते: " इत्यच्प्रत्ययः । ‘शयवासवासिष्वकालात्' इत्यलुक्सप्तम्याः । मृदङ्गशब्दानामपगमादभावादलास्या नृत्यशून्याः। दवोऽरण्यवह्निः । 'दवदावौ वनारण्यवह्नी' इत्यमरः । तस्योल्काभिः स्फुलिङ्गैर्हतेभ्यः शेषाणि बर्हाणि येषां ते क्रीडामयूरा वनबर्हिणत्वं वनमयूरत्वं प्राप्ताः ॥