________________
षोडशः सर्गः
३१९
समासः–तल्पानाम् अट्टानां च शतानि इति तल्पादृशतानि, विशीर्णानि तल्पादृशतानि यस्य स विशीर्णतल्पादृशतः । पर्यस्तः शालः यस्य स पर्यस्तशालः । अस्ते निमग्नः सूर्यः यस्य स तम् अस्तनिमग्नसूर्यम् । उग्रश्चासौ अनिलः उग्रानिलः, उग्रानिलेन भिन्नाः मेघाः यस्मिम् तम् उग्रानिलभिन्नमेवम् । दिनस्य अन्तस्तं दिनान्तम् ।
हिन्दी - प्रभु भगवान् राम के बिना मेरी निवास भूमि अयोध्या के सैकड़ों घर और अट्टालिकायें टूट ढह गई हैं, और नगरी के चारों ओर का परकोटा गिर गया है । अतः वह ऐसी लग रही है जैसा कि वह सायंकाल दोखता है जिसका सूर्य अस्ताचल में छिप गया है और वायु के प्रबल वेग से मेघ इधर-उधर छितरा गये हैं ॥ ११ ॥
निशासु भास्वत्कलनूपुराणां यः संचरोऽभूदभिस | रिकाणाम् । नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ।। १२ ।।
निशासु भास्वन्ति दीप्तिमन्ति कलान्यव्यक्तमधुराणि नूपुराणि यासां तासामभिसारिकाणाम् । 'कान्तार्थिनी तु या याति संकेतं साभिसारिका' इत्यमरः । यो राजपथः । संचरत्यनेनेति संचरः । संचारसाधनमभूत् । ' गोचरसंचर - ' इत्यादिना घप्रत्ययान्तो निपातः । नदत्सु मुखेषु या उल्कास्ताभिर्विचितामिषाभिरन्विष्टमांसाभिः शिवाभिः क्रोष्ट्रीभिः स राजपथो वाह्यते गम्यते । वहेरन्यो वहिधातुरस्तीत्युपदेशः ॥
अन्वयः -
यः - निशासु भास्वत्कलनूपुराणाम् अभिसारिकाणां यः संचरः अभूत् " सम्प्रति” नदन्मुखोल्काविचितामिषाभिः शिवाभिः सः राजपथः वाह्यते ।
व्याख्या - नितरां श्यति = तनूकरोति व्यापारान् सा निशा, तासु निशासु = रात्रिषु नुवनं, नूयते वा नूः, नुवि पुरन्तीति नूपुराः । भास्वन्ति = दीप्तिमन्ति कलानि = अव्यक्तमधुराणि च नूपुराणि = मञ्जीराः यासां ताः तासां भास्वत्कलनू पुराणाम् “मञ्जीरो नूपुरोऽस्त्रियाम्" इत्यमरः । अभिसरन्तीति, अभिसारिकास्तासाम् अभिसारिकाणां = पतीच्छया संकेतस्थानं गछन्तीनाम् "कान्तार्थिनी तु या याति संकेतं साभिसारिका" इत्यमरः । यः = राजपथः संचरन्त्यनेन संचरः = संचरणसाधनम् अभूत् = आसीत्, ( यः पूर्वमेवं भूतः आसीत् स मार्गः इदानीम् ) नदत्सु = अव्यक्तशब्दं कुर्वाणेषु मुखेषु = आननेषु या उल्काः = तेजःपुञ्जाः, अग्निशिखा स्ताभिः विचितम् = अन्विष्टम् आमिषं = मांसं याभिस्ताः, ताभिः नदन्मुखोल्काविचितामिषाभिः, ओषतीति उल्का, उषदाहे, धातो: “शुकवल्कोल्का" इति साधुः । शिवः शिवा वा देवता अस्याः अस्तीत शिवा, शकुनावेदकत्वात् । शिवाभिः = शृगालीभिः सः = प्रसिद्धः राज्ञां पन्थाः राजपथः = राजमार्ग : बाह्यते = गम्यते ।
समासः -
: - भास्वन्ति कलानि च नूपुराणि यासां ताः भास्वत्कलनूपुरास्तासां भास्वत्कुलनूपुराणाम् । नदन्ति यानि मुखानि इति नदन्मुखानि नदन्मुखेषु या उल्काः ताभिः विचितम् आमिषं याभिस्ताभिः नदन्मुखोल्काविचितामिषाभिः । राज्ञां पन्थाः राजपथः ।