________________
रघुवंशे
आश्रयस्य सारः यत्र सा तां वस्वौकसाराम् “ओकः आश्रयमात्रे मन्दिरे च नपुंसकम्" इति मेदिनी। अलकापुरी वस्वौकसारास्यादिति च कोषः । विष्णुपुराणात् अमरावत्यपि वस्वौकसारा । अलकाम् = कुबेरपुरीम् , अमरावती च अभिभूय = तिरस्कृत्य, परित्यज्येत्यर्थः । समग्रा= सम्पूर्णा शक्तिः = सामर्थ्य यस्मिन् स समग्रशक्ति स्तस्मिन्समग्रशक्तौ त्वयि = भवति, कुशे सूर्यः वंशः सूर्यवंशः सूर्यवंशे भवस्तस्मिन् , सूर्यवंश्ये = सवितृकुलोत्पन्ने सति = विद्यमाने करुणां = दीनाम् अवस्थां = दशां, दयनीयस्थितिम् प्रपन्ना = प्राप्ता । गता।
समासः-सौराज्येन बद्ध : उत्सवः यस्याः सा तया सौराज्यबद्धोत्सवया । वसूनाम् ओकः वस्वौकः, वस्वौकरय सारः यस्यां सा तां वस्वौकसाराम् । समग्रा शक्तिः यस्मिन् स समग्रशक्तिस्तस्मिन् समग्रशक्ती, सूर्यस्य वंशः सूर्यवंशः तत्र भवस्तस्मिन् सूर्यवंश्ये ।
हिन्दी-"पहले अयोध्या नगरीमें" अच्छे राजा होने के कारण आनन्दपूर्ण ऐश्वर्य के कारण देवों के ऐश्वर्य वाली अलका या अमरावती ( कुबेर की नगरी या इन्द्रपुरी) का तिरस्कार करके मैं अब, सर्वशक्तिशाली सूर्यवंशी तुम्हारे जैसे राजा के रहते इस दीन-हीन दशा को प्राप्त हो गई हूँ। अर्थात् योग्य राजाओं के कारण पहले मैं अमरावती से भी श्रेष्ठ थी किन्तु अब मैं इस दशा में हूँ॥ १० ॥
विशीर्णतल्पादृशतो निवेशः पर्यस्तशाल. प्रभुणा विना मे ।
विडम्बयत्यस्तनिमग्नसूर्य दिनान्तमुग्रानिलमिझमेघम् ।। ११ ॥ तल्पान्यट्टालिकाः । 'तल्पं शय्याट्टदारेषु' इत्यमरः । अट्टानि गृहभेदाः। 'अझं भक्त च शुष्के च क्षौमेऽत्यर्थे गृहान्तरे' इति विश्वः। विशीर्णानि तल्पानामट्टानां च शतानि यस्य स तथोक्तः । 'विशीर्णकल्पादृशतो निवेशः' इति वा पाठः । अट्टाः क्षौमाः। 'स्यादट्टः क्षौममस्त्रियाम्' इत्यमरः। ईषदसमाप्तं विशीर्णानि विशीर्णकल्पान्यदृशतानि यस्य स तथोक्तः। पर्यस्तशालः स्रस्तप्राकारः। 'प्राकारो वरणः शालः' इत्यमरः। प्रभुणा स्वामिना विनैवंभूतो मे निवेशो निवेशनम् । अस्तनिमग्नसूर्यमस्ताद्रिलोनार्कमुग्रानिलेन भिन्नमेघ दिनान्तं विडम्बयत्यनुकरोति ॥
अन्वयः-विशीर्णतल्पादृशतः पर्यस्तशाल: प्रभुणा विना मे निवेशः अस्तनिम्नसूर्यम् उग्रानिलभिन्नमेघ दिनान्तं विडम्बयति ।
व्याख्या-विशीर्णानि = भग्नानि तल्पानाम् = अट्टालिकानाम् अट्टानां= गृहभेदानां च शतानि =असंख्यानि यस्य स विशीर्णतल्पादृशतः, पर्यस्तः= स्रस्तः, भग्नीभूतः शालः = प्राकारः यस्य स पर्यस्तशालः, प्रकर्षेण भवतीति प्रभुः तेन प्रभुणा = स्वामिना, रामेण विना=रहित इत्यर्थः । मे =मम निविशन्ते जनाः अत्र निवेशः =निवासभूमिः अस्ते = अस्ताचले निमग्नः= लीनः सूर्यः = रविः यस्य स तम् अस्तनिमग्नसूर्यम् उग्रः= प्रबलश्चासौ अनिलः = वायुः इति उग्रानिलस्तेन उग्रानिलेन भिन्नाः = विदीर्णाः मेघाः पयोदाः यस्य स तम् उग्रानिलभिन्नमेषम् दिनस्य = दिवसस्य अन्तः = अवसानं तं दिनान्तं विडम्बयति = अनुकरोति । धनजनशून्या, जीर्णशीर्णभवना च अयोध्या जाताधुना, इतिभावः ।