________________
षोडशः सर्गः
अन्वयः - यष्टिनिवासभंगात् वृक्षेशयाः मृदंगशब्दापगमात् अलास्याः दवोल्काहतशेषबर्हाः क्रीडामयूराः वनबहिंणत्वं प्राप्ताः ।
२१
३२१
व्याख्या यष्टिः = लगुड : एव निवासः = स्थानमिति यष्टिनिवासस्तस्य भंगः -- नाशस्तस्मात् यष्टिनिवासभङ्गात् वृक्षे = पादपे शेरते = स्वपन्तीति वृक्षेशयाः मृदंगानां = मुरजानां शब्दः = ध्वनिस्तस्य अपगमः = अभावः इति मृदंगशब्दापगमस्तस्मात् मृदंगशब्दापगमात्, न = नास्ति लास्यं = नृत्यं येषां ते अलास्या: = नृत्यशून्याः दवस्य = वनवहे : उल्काः = स्फुलिंगाः ताभिः हताः = दग्धास्तेभ्यः शेषाणि - अवशिष्टानि बर्हाणि = पिच्छानि, शिखण्डाः येषां ते दवोल्काहतशेषवर्हाः क्रीडार्थं मयूराः क्रीडामयूराः = केलिवर्हिणः वनस्य = अरण्यस्य बर्हिणः = मधूराः तेषां भावः वनबहिंणत्वं तत् प्राप्ताः = गताः ।
,
समासः - यष्टिः एव निवासः यष्टिनिवासस्तंस्य भंगस्तस्मात् यष्टिनिवासभंगात् । मृदंगस्य शब्दस्तरय अपगमस्तस्मात् मृदंगशब्दापगमात् । न विद्यते लास्यं येषां ते अलास्याः । दवस्य उल्काः दवोल्काः, ताभिः हतास्तेभ्यः शेषाणि बर्हाणि येषां ते दवोल्काहतशेषबर्हाः । क्रीडार्थं मयूराः क्रीडामयूराः । वनस्य बर्हिणः वनबहिणः, तेषां भावस्तत्वं वनत्रर्हिणत्वम् ।
हिन्दी -- पालतू मोर आदि पक्षियों के बैठने के लिये लोग घरों में स्थान-स्थान पर डण्डे व लकड़ी के टुकड़े बाँधे रहते थे, वहीं इनके घर थे । अब यष्टि रूपी अपने घर के नष्ट हो जाने से वृक्षों पर बैठने, सोने वाले, और ( नगर में ) मृदंग की ध्वनि के बन्द हो जाने से न नाचने वाले घरों के मोर उन जंगली मोरों के समान हो गये हैं। जो कि जंगल की आग के स्फुलिंगों से जली हुई आधी पूँछ वाले हैं । अर्थात् जिनकी जलकर थोड़ी-सी हो बची पूँछ रह गई है, वैसे ये घर के मोर अब हो गये हैं ॥ १४ ॥
सोपानमार्गेषु च येषु रामा निक्षिप्तवत्यश्चरणान्सरागान् ।
सद्यो हतन्यङ्कुभिरस्रदिग्धं व्याघ्रैः पदं तेषु निधीयते मे ।। १५ ।। किच । येषु सोपानमार्गेषु रामा रमण्यः सरागाँल्लाक्षारसाद्रांश्चरणान्निक्षिप्तवत्यः, तेषु मे मम मार्गेषु सद्यो हतन्यङ्कुभिर्मारितमृगैर्व्याघ्रैरस्रदिग्धं रुधिरलिप्तं पदं निधीपते ॥
अन्वयः - येषु सोपानमार्गेषु रामाः सरागान् चरणान् निक्षिप्तवत्यः तेषु मे ( मार्गेषु ) सद्यः हतन्यंकुभिः व्याघ्रैः अस्रदिग्धं पदं निधीयते ।
व्याख्या - येषु सह = विद्यमानः उप = उपरि आन: - गमनं येषु तानि सोपानानि तेषां मार्गाः = पन्थानस्तेषु सोपानमार्गेषु = आरोहणमार्गेषु “ स्यादारोहणं सोपानम्" इत्यमरः । रामाः=रमण्यः रागेण = लाक्षारसेन सहिताः सरागास्तान् सरागान् चरणान् = पादान् निक्षिप्तवत्यः = निचिक्षिपुः, स्थापितवत्यः इत्यर्थः । सम्प्रति तेषु = प्रसिद्धेषु मे = मम सोपानमार्गेषु, नितरामञ्चन्तीति न्यंकवः । सद्यः -- तत्क्षणे हताः = मारिताः न्यंकत्रः = हरिणाः यैस्ते तैः हतन्यंकुभिः वि = विशेषेण आ = समन्तात् जिघ्रन्ति इति व्याघ्रास्तैः व्याघ्रैः = सिंहै: अस्रेण = शोणितेन