________________
पञ्चदशः सर्गः
३०५
स गत्वा सरयूतीरं देहत्यागेन योगवित् ।
चकारावितथा भ्रातुः प्रतिज्ञा पूर्वजन्मनः ॥ ९५ ॥ योगविद्योगमार्गवेदी स लक्ष्मणः सरयूतीरं गत्वा देहत्यागेन पूर्वजन्मनो भ्रातुः प्रतिशा. मवितथा सत्यां चकार ॥
अन्वयः-योगवित् सः सरयूतीरं गत्वा देहत्यागेन पूर्वजन्मनः भ्रातुः प्रतिज्ञाम् अवितयां चकार।
व्याख्या—योग = चित्तवृत्तिनिरोधं ध्यानमित्यर्थः। वेत्ति =जानातीति योगवित् सः = लक्ष्मणः सरवाः= नद्याः तीरं = तटमिति सरयूतीरम् गत्वा = प्राप्य देहस्य = स्वशरीरस्य त्यागः = विसर्गस्तेन देहत्यागेन पूर्व = प्रथमं जन्म = उत्पत्तिर्यस्य स पूर्वजन्मा तस्य पूर्वजन्मनः = ज्येष्ठस्य भ्रातुः = रामस्य विगतं सत्यं यस्याः सा वितथा, न वितथा इति अवितथा ताम् अवितथा = सत्यां चकार = कृतवान् । स्वदेहं परित्यज्य रामवियुक्तः अभूदित्यर्थः । ___ समासः-सरवाः तीरम् सरयूतीरं तत् सरयूतीरम् । देहस्य त्यागः देहत्यागस्तेन देहत्यागेन । न वितथा अवितथा ताम् अवितथाम् । पूर्व जन्म यस्य स पूर्वजन्मा तस्य पूर्वजन्मनः । योगस्य वित् ।
हिन्दी-योग समाधि को जानने वाले लक्ष्मण ने सरयू नदी के किनारे पर जाकर योगमार्ग से अपने शरीर को त्याग कर बड़े भाई की प्रतिज्ञा को सत्य कर दिया ॥ ९५ ॥
तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि ।
राघवः शिथिल तस्थौ भुवि धर्मविपादिव ॥ ९६ ॥ चतुर्थों भागश्चतुर्भागः संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वं शतांशवत् । आत्मचतुर्भागे तस्मिल्लक्ष्मणे प्राङ्नाकमधितस्थुषि पूर्व स्वर्ग जग्मुषि सति राघवो रामः। भुवि त्रिपाद्धर्म इव शिथिलं तस्थौ । पादविकलो हि शिथिलं तिष्ठतीति भावः । त्रेतायां धर्मस्त्रिपादित्याहुः। पादश्चतुर्थाशः अञिश्च ध्वन्यते । ‘पादा रश्म्यचितुर्याशाः' इत्यमरः। त्रयः पादा यस्यासौ त्रिपात् । 'संख्यासुपूर्वस्य' इत्यकारलोपः समासान्तः ॥
अन्वयः-आत्मचतुर्भागे तस्मिन् प्राक् नाकम् अधितस्थुषि सति राघवः भुवि त्रिपात् धर्म इव शिथिलं तस्थौ।
व्याख्या आत्मनस्य = स्वस्य विष्णोरित्यर्थः, चतुर्थः भागः = अंशः इति आत्मचतुर्भागः, तस्मिन् आत्मचतुर्भागे। संख्यावाचकशब्दस्य वृत्तिविषये पूर्णार्थत्वं शतांशवत् । रामभरतलक्ष्मणशत्रुघ्नरूपैरात्मानं चतुर्धाविभज्य अवतीर्णस्य विष्णोः लक्ष्मणः, एकोऽशः, इत्यर्थः । तस्मिन् = लक्ष्मणे प्राक् = पूर्व न कं सुखम् , अकं = दुःखं न यत्र तत् नाकं = स्वर्गम् अधितस्थुषि = जग्मुषि सति राघवः = रामचन्द्रः भुवि = पृथिव्यां त्रयो पादाः = चरणाः यस्य स