________________
३०४
रघुवंशे
स कालस्तथेति प्रतिपन्नाय नृपाय रामाय विवृतात्मा प्रकाशितनिजस्वरूपः सन् । परमेष्ठिनो ब्रह्मणः शासनाद्दिवमध्यास्वेत्याचख्यौ ||
अन्वयः -- सः तथा इति प्रतिपन्नाय नृपाय विवृतात्मा सन् परमेष्ठिनः शासनात् दिवम् अध्यास्व इति आचख्यौ ।
व्याख्या - सः = कालः तथा = एवमस्तु इति = एवं प्रतिपन्नाय = प्रतिस्वीकृतवते नृपाय = राज्ञे, रामाय विवृतः = प्रकटितः, प्रकाशितः आत्मा = स्वरूपं येन स विवृतात्मा सन् परमे = व्योमनि, चिदाकाशे, ब्रह्मपदे वा तिष्ठतीति परमेष्ठी तस्य परमेष्ठिनः = ब्रह्मणः प्रजापतेः, शासनात् = आदेशात् दिवं = स्वर्गम् अध्यास्व = अध्यारोहस्व इति आचख्यौ = कथयामास, उक्तवानित्यर्थः ।
समासः - विवृतः आत्मा येन स विवृतात्मा ।
हिन्दी - एवम् अस्तु, अच्छा तुम्हारी बात स्वीकार है । यह राम के कहने पर यमराज ने अपना स्वरूप प्रकट कर दिया, और कहा कि ब्रह्मा की आज्ञा से आप स्वर्ग ( वैकुण्ठ ) में चलकर विराजें ॥ ९३ ॥
विद्वानपि तयोर्द्वाःस्थः समयं लक्ष्मणोऽभिनत् ।
भीतो दुर्वाससः शापाद्रामसं दर्शनार्थिनः ॥ ९४ ॥
द्वाःस्थो द्वारि नियुक्तो लक्ष्मणो विद्वानपि पूर्वश्लोकोक्तं जानन्नपि रामसंदर्शनार्थिनो दुर्वाससो मुनेः शापाद्भीतः सन् । तयोः कालरामयोः समयं संवादमभिनद्बिभेद ||
श्रन्वयः – द्वाःस्थः लक्ष्मणः विद्वान् अपि रामसन्दर्शनार्थिनः, दुर्वाससः शापात् भीतः सन् तयोः समयम् अभिनत् ।
व्याख्या - द्वारि तिष्ठतीति द्वाःस्थः = द्वारिनियुक्तः लक्ष्मणः = सौमित्रिः वेत्ति = जानातीति विद्वान् = पूर्वश्लोकोक्तज्ञाता अपि र रामस्य सन्दर्शनम् = अवलोकनमिति रामसन्दर्शनम् । रामसन्दर्शनस्य अर्थी = अभिलाषी, इति रामसन्दर्शनार्थी तस्य रामसन्दर्शनार्थिनः दु दुष्टं निगूढमित्यर्थः वासः इव धर्मावरणत्वं यस्य स दुर्वासाः तस्य दुर्वाससः = कुशारणेः, प्रसिद्धमुनेरित्यर्थः । शापात् = अभिशापात् भोतः = भयाक्रान्तः सन् तयोः = रामयमयोः । समयं = संवादम् अभिनत् बिभेद । तयोः रहस्यभंगं कृतवान् ।
=
समासः - रामस्य सन्दर्शनमिति रामसन्दर्शनम्, रामसन्दर्शनस्य अर्थी, रामसन्दर्शनार्थी। तस्य रामसन्दर्शनार्थिनः। दुर्वासः इव दुर्वासाः, तस्य दुर्वाससः ।
>
हिन्दी - “काल और राम के वार्तालाप के बीच ही दुर्वासा आ गये" और दरवाजे पर बैठे लक्ष्मण ने काल और राम की उक्त प्रतिज्ञा को जानकर भी, राम के दर्शन की इच्छा वाले ( क्रोधी ) महर्षि दुर्वासा के शाप से डर कर उन दोनों के शर्त, नियम को तोड़ दिया । अर्थात् बीच में ही जाकर सूचना दी कि दुर्वासा ऋषि आये हैं ॥ ९४ ॥