________________
पञ्चदशः सर्गः
३०३
अन्वयः-इति आरोपितपुत्राः ते जनेश्वराः भर्तृलोकप्रपन्नानां जननीनां क्रमात् । निवापान् विदधुः ।
व्याख्या--इति = एवं पूर्वोक्तप्रकारेण आरोपिताः = तत्तत्राज्येस्थापिताः पुत्राः = आत्मजाः यैस्ते आरोपितपुत्राः ते = रामचन्द्रादयः जनानां = लोकानाम् ईश्वराः = राजानः, इति जनेश्वराः, भर्तृणां = स्वर्गतस्वामिनां लोकं = पितृलोकं प्रपन्नाः = गतास्तासां भर्तृलोकप्रपन्नानां = स्वर्गगानां जनयन्तीति जनन्यस्तासां जननीनां = मातृणां क्रमात् = क्रमशः न्युप्यंते, निवपनं वा निवापः । तान् निवापान् = पितृदानानि, श्राद्धादीनित्यर्थः । विदधुः = विहितवन्तः ।
समासः-आरोपिताः पुत्राः यै स्ते आरोपितपुत्राः। जनानाम् ईश्वराः इति जनेश्वराः। भर्तृणां लोकः भर्तृलोकः । तं प्रपन्नाः इति भर्तृलोकप्रपन्ना स्तासां भर्तृलोकप्रपन्नानाम् ।
हिन्दी-इस प्रकार अपने पुत्रों को उस-उस प्रदेश का राजा बनाकर उन सब राम आदि जननायकों ने, पितृलोक में गई हुई। अर्थात् स्वर्गीय अपनी माताओं के श्राद्ध में दान दिया। श्राद्ध आदि किया ॥ ९१ ॥
उपेत्य मुनिवेषोऽथ कालः प्रोवाच राघवम् ।
रहःसंवादिनौ पश्येदावां यस्तं त्यजेरिति ॥ ९२ ॥ अथ कालोऽन्तको मुनिवेषः सन्नुपेत्य राघवं प्रोवाच । किमित्याह-रहस्येकान्ते संवा दिनौ संभाषिणावावां यः पश्येत् । रहस्यभङ्गं कुर्यादित्यर्थः तं त्यजेरिति ।
अन्वयः-अथ काल: मुनिवेषः सन् उपेत्य, राघवं प्रोवाच "किमित्याह" रहवादिनौ आवां यः पश्येत् तं त्वं त्यजेः इति ।
व्याख्या-अथ = अनन्तरम् कलयति, आयुरिति कालवर्णत्वाद्वा काल: = यमः मुनेः= तपस्विनः वेषः इव वेषः = परिधानं यस्य स मुनिवेषः सन् उपेत्य = रामसमीपमागत्य प्रोवाच = उक्तवान् । किमित्याह रहसि = विजने संवदतः, इति रहःसंवादिनौ, एकान्ते वार्तालापं कुर्वन्तौ, तौ, आवां = रामयमौ यः = जनः पश्येत् = अवलोकयेत्, रहस्यं भेदं कुर्यादित्यर्थः । तं = जनं त्वं त्यजे: तस्य त्यागं कुर्याः इति । __समासः--मुनेः वेष इव वेपो यस्य स मुनिवेषः । रहसि संवादिनौ, रहःसंवादिनौ तौ रहःसंवादिनौ।
हिन्दी-पुत्रों की राज्यादि व्यवस्था होने पर एक दिन मुनि का वेष धारण कर यमराज, राम जी के पास आकर बोला “कि मैं एकान्त में बात करना चाहता हूँ" और एकान्त में बातें करते हुए हम दोनों को जो कोई बीच में आकर देखेगा, उसे आप त्याग देंगे ॥ ९२ ॥
तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः । आचख्यौ दिवमध्यास्व शासनात्परमेष्ठिनः ॥ ९३ ॥