________________
३०२
रघुवंशे
व्याख्या-सः=भरतः अभिषेक = राज्यतिलकम् अर्हतः, इति अभिषेकाहौं पुष्यति = पुष्टिं गच्छतीति पुष्कलः। तक्षः = एतन्नामा पुष्कल:=एतन्नामकश्चेति तक्षपुष्कलौ नाम पुत्रौ= आत्मजौ, तौ = तक्षपुष्कलौ आख्ये = नामनी ययोस्तयोः तदाख्ययोः= तक्षशिलापुष्कलावत्योः राज्ञां धान्यौ राजधान्यौ तयोः राजधान्योः =राजनगर्योः अभिषिच्य=राजतिलकं कृत्वा, तक्षं तक्षशिलायां, पुष्कलं च पुष्कलावत्यां राजतिलकंविधायेत्यर्थः। तथाचोक्तं वाल्मीकीये रामायणे, "तक्षं तक्षशिलायां तु पुष्कलंपुष्कलावते" इति । रामस्य = ज्येष्ठभ्रातुः अन्तिकं = समीपम् अगात् =आजगाम ।
समासः–तक्षश्च पुष्कलश्चेति तक्षपुष्कलो तौ। अभिषेकस्य अहौं, इति अभिषेकाहौँ । तौ आख्ये ययोस्ते तदाख्ये तयोः तदाख्ययोः रामस्य अन्तिकमिति रामान्तिकम् ।
हिन्दी-भरत जी, राजतिलक करने योग्य तक्ष तथा पुष्कल नामक अपने पुत्रों को, उन्हीं के नामवाली राजधानी में अभिषेक करके ( राजा बनाकर ) फिर राम जी के पास आ गये। अर्थात् तक्षको तक्षशिला का और पुष्कल को पुष्कलावती का राजा बनाया था ॥ ८९ ॥
अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसंभवौ ।
शासनाद्रघुनाथस्य चक्रे कारापथेश्वरौ ॥ ९० ॥ लक्ष्मणोऽपि रघुनाथस्य रामस्य शासनादगदं चन्द्रकेतुं च तदाख्यावात्मसंमवौ पुत्रौ । कारापथो नाम देशः । तस्येश्वरौ चक्रे ॥
अन्वयः-लक्ष्मणः अपि रधुनाथस्य शासनात् अंगदं चन्द्रकेतुं च आत्मसंभवौ कारापथेश्वरौ चक्रे।
व्याख्या--लक्ष्मीरस्यास्तीति लक्ष्मणः =रामानुजः अपि रघूणां = रघुवंशीयानां नाथः= स्वामी इति रघुनाथस्तस्य रघुनाथस्य रामस्य शासनात् = आदेशात् अंगं = शरीरं दयते, दायति, धति वा अंगदः = लक्ष्मणपुत्रः तम् अंगदं चन्द्रकेतुं = चन्द्रकेतुनामकं च आत्मनः= स्वस्मात् सम्भवतः इति आत्मसम्भवौ =आत्मजौ कारापथस्य = देशविशेषस्य ईश्वरौ =स्वामिनौ तौ कारापथेश्वरौ चक्रे = कृतवान् ।
समासः-रघूणां नाथः रघुनाथस्तस्य रघुनाथस्य । चन्द्रः केतुरस्य स तं चन्द्रकेतुम् । आत्मनः संभवौ तौ आत्मसम्भवौ । कारापथस्य ईश्वरौ, तौ कारापथेश्वरौ।
हिन्दी और लक्ष्मण ने भी राम की आज्ञा से अंगद तथा चन्द्रकेतु नामक अपने पुत्रों को कारापथ का राजा बना दिया ॥ ९ ॥
इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः ।
मर्तृलोकप्रपन्नानां निवापान्विदधुः क्रमात् ॥ ९१ ॥ इत्यारोपितपुत्रास्ते जनेश्वरा रामादयो भर्तृलोकप्रपन्नानां स्वर्यातानां जननीनां क्रमान्निवापाश्राद्धादीन्विदधुश्चक्रुः ॥